पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(१-३प्रश्नाः) Satyaashada Srautasutra.pdf/१०५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

2 १०० सत्यापादविरचितं श्रौतसूत्र- भिमप्रमे- सायमभिदौग्धि । तथा त्रयोदश्यां द्वादश्यां वा प्रातर्दुग्ध्वा दधिकृते तत्रैव सायं प्रातः संततमभिदोग्धि, तथाऽरे चतुर्दश्यां त्रयोदश्यां द्वादश्यां वा प्रातर्दुग्धे दनि पुन संततमभिदोग्धि । एवं तिसृणामपि । एवंरूपेण द्वितीयः पक्ष आपस्तम्बे दृष्टः ।

सोमेन त्वाऽऽतनच्मीति तेन शीतं बुध्नं कृत्वाऽऽतनक्तीन्द्रस्य स्वा भागꣳ सोमेनाऽऽतनच्मीति वा ।

इन्द्राय दधीति मन्त्रान्तः । पूर्वस्योभयत्र महेन्द्रपदं महेन्द्रयाजिनस्तेन पूर्वकृतेन दनाऽऽतनक्ति दधित्वलक्षणं विकारं प्रापयति । शीतं बुधनं कृत्वा कुम्भ्या यावदध. स्तात्कुम्भी न शीता तावदातश्चने कृते पयो विकृति गच्छन्न दधि भवेत्तदर्थ शीतमि- स्युक्तम् । आतञ्चनदध्यभावे वैकल्पिकानि पञ्च द्रव्याण्याह-

तण्डुलैः पर्णवल्कैः क्वलैर्बदरैः पूतीकैर्वा ।

मन्त्रस्तु पूर्वोक्त एव । पर्णवल्कैः पर्णत्वगवयवैः क्याम्यवदरैवदरैरारण्यैः पूतीकैः सोमप्रत्याम्नायौषधिखण्डैः।

यज्ञस्य संततिरसि यज्ञस्य त्वा संततिमनुसंतनोमीत्यग्निहोत्रोच्छेषणमानयति तूष्णीं वा ।

अग्निहोत्रोच्छेषणमग्निहोत्रे हुते यदुच्छिष्यते स्थालीगतमिति केचित्चुग्गतमिति न्याय्यं वाजसनेविश्रुतेश्च तत्तस्यां कुम्भ्यामानयति प्रापयति मन्त्रेण तूष्णी वा। अग्निहोत्रोच्छेषणमन्यातनक्तीति विद्यमानस्योच्छषणस्य प्रतिपत्तिः संस्कारो दोहस्य । तेन नोच्छेषणनाशे बौधायनोक्तमिव पुनरग्निहोत्रम् । उच्छेषणाभावेऽनुग्रहमाहाऽऽप- स्तम्बः- उच्छेषणाभावे तण्डुरातञ्च्यात्तण्डुलाभाव ओषधीभिः ' इति । एताभ्यां तूष्णीमेव । सौम्ये पयसि प्रतिनिधिनवाऽऽतञ्चनं भवति । अत ज्ञायते न पुनरग्निहोत्रं होतब्यमुच्छेषणनाश इति । यवाग्माऽग्निहोत्रहोमोऽमावास्यायां रात्रौ स्वयं यजमानस्य संनयतो नैमित्तिको नोच्छेषणप्रयुक्त उच्छेषणं चानुनिष्पादि वानिनत्तस्येयं प्रतिपत्तिरनिहोत्रोच्छेषणमभ्यातनतीति द्वितीयानिर्देशासंस्कारोऽयं दोहस्यापि आनयतेतिकर्मकत्वाम्मलिङ्गाद्यज्ञस्य संतत्या इति ब्राह्मणाच्च यज्ञेनाग्नि- होत्रिणाऽस्य यज्ञस्य सातत्य संस्तुतेः । न ह्यग्निहोत्रोच्छेषणप्रतिपत्तिदर्शपूर्णमाप्त- माझणप्रतिपाया भवति । ततस्तु संस्कारलोपो मा भूदिति प्रतिनिधिराश्रित आपस्त. म्माचार्येण । नोक्तस्त्वस्मदाचार्येण प्रतिनिधिायेन लौकिकी यवागूस्तत्प्रकृतितण्डुला "अन्यास्तत्सदशा ओषधयो वा प्राप्नुवन्त्येवेति । एवं क. व. ग. . पं. छ. अ.. मेट. ४. इ. "मेन त्वाऽऽत ।