पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(१-३प्रश्नाः) Satyaashada Srautasutra.pdf/१०६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

"च०पटलः) महादेवकृतवैजयन्तीव्याख्यासमेतम् ।

आपो हविःषु जागृत यथा देवेषु जाग्रथ । एवमस्मिन्यज्ञे यजमानाय जागृतेत्यपिधानार्थे पात्रेऽप आनयत्यदस्तमसि विष्णवे त्वा यज्ञायापिदधाम्यहम् ।

अयस्पायेण दारुपात्रेण वेति श्रुतेरायसे दारुमये वा। तयोरभावे विशेषमाह-

यदि मृन्मयꣳ स्यात्तृणं काष्ठं वाऽनुप्रविध्येत् ।

पात्रे मृन्मये प्रक्षिपेत् ।

इमौ पर्णं च दर्भं च देवानाꣳ हव्यशोधनौ । प्रातर्धेयाय गोपाय विष्णो हव्यꣳ हि रक्षसीत्युन्मुच्य शाखापवित्रं प्रज्ञातं निदधाति ।

पलाशशाखापवित्र एवायं मन्त्रो न शमीशाखापवित्रे लिङ्गतिरोधात् । तत्र तूष्णीमेव निधानं पूर्वत्रापि निधानमेव मन्त्रेण न तून्मोचनम् ।

विष्णो हव्यꣳ रक्षस्वेति सानाय्यं गार्हपत्यदेश उपरि निदधाति ।। ११ ।।

इति हिरण्यकेशिसूत्रे प्रथमप्रश्ने तृतीयः पटलः ।। ३ ।।

शिक्यादौ स्थापयति । अत्र सानाम्येऽनुग्रहं बौधायनः-दुग्धमलममानस्य वसापाकरणप्रभृतिमन्त्रान्साधयेदिति बौधायन आसेचनप्रभृतीति शालीकिरिति । गवामभावे दोहाशक्तौ वा दुग्धमेव ग्राह्यं, तत्रैव प्रागुक्कसंस्काराः कार्याः । आचार्यस्य तु दुग्धे दोहनमन्त्रप्रयोगस्यानिष्टत्वाद्वाराभावे सति शालीकिमतमिष्ट- माचार्यस्याऽऽसेचनगोदोहनप्रक्षालननिनयनं तत्प्रभृति मन्त्रैः कार्यम् । दैनि प्रति- निधिमूते तु नैव यजुष्क्रिया बौधायनपक्षादन्यत्र पक्ष आचार्यपक्षे च नेति ज्ञेयम् । इति सत्यापाढ हिरण्यकशिसूत्रव्याख्यायां प्रयोगवैजयन्त्यां महादेवकृतायां प्रथममश्ने तृतीयः पटलः ॥ ३ ॥

1.4 अथ चतुर्थः पटलः ।

अन्याꣳ शाखामाहृत्य तेनैव कल्पेन तया दर्भैर्वा प्रातर्दोहाय वत्सानपाकरोति यथा सायंदोहाय ।

तेनैव कल्पन पलाशशाखां शमीशाखां वाऽऽहरतीत्या तेनाऽऽहरणेन संबद्ध ..सादथे । ३ क. ग, च. उ.द. दधि ।