श्तृ० पटलः] महादेवकृतवैजयन्तीव्याख्यासमेतम् । ९५
आपो देवीरित्यनुमन्त्र्यते ।। ८ ।।
प्रोलिताः स्थेति मन्त्रान्तः । अयं मन्त्र उमयदोहयोः ।
आपो देवीः शुद्धाः स्थेमा पात्राणि शुन्धत । उपा- तङ्क्याय देवानां पर्णवल्कमुत शुन्धतेति वा ।
अत्र तूपातळ्याय देवानां वर्णवस्कमिति लिङ्गात्सायदोह एव ।
शुन्धध्वमिति त्रिः सर्वाभिरुत्तानानि पात्राणि प्रोक्षति शुन्धन्तां विश्वकर्माणि देवयज्यायै दैव्याय कर्मणे शुन्धध्वं यद्वोऽशुद्धाः पराजग्मुस्तद्व एतेन शुन्धतामिति वा ।
यज्याथा इत्यन्तः । सर्वामिरिति शेषं नावशेषयेत् ।
एता आचरन्ति मधुमद्दुहानाः प्रजावतीर्यशसो विश्वरूपाः । बह्वीर्भवन्तीरुपजायमाना इह व इन्द्रो रमयतु गाव इति गा आयतीः प्रतीक्षते ।
मन्त्रान्तेनेक्षणं प्रतीपं गस्वाऽऽयतीरग्निशालासमीपमागच्छन्तीः ।
धृष्टिरसीत्युपवेषमादाय ।
ब्रह्म यच्छेति मन्त्रान्तः ।
निरूढं जन्यं भयꣳ सह तेन यं द्विष्मः सुभूताय श्रयध्वमिति तेन गार्हपत्यादुदीचोऽङ्गारान्निरूह्य ।
गार्हपत्यागार्हपत्यायतनात्तेन गृहोतोपवेषेणोदीच उदीची दिशं प्रति निख() साऽऽयतनात्यकृत्वा ।
मातरिश्वन इति तेषु कुम्भीमधिश्रयति ।
दृश्हस्व मा हारिति मन्त्रान्तः । उखाशब्देन प्रयुनक्तीत्युक्तम् । अत्र तु कुम्मीम- विश्रयतीत्याह तज्ज्ञापयति जातिनिमित्तौ पर्यायशब्दावेताविति । चैकल्पिक मन्त्रान्तरमाह-
अप्रस्रꣳसाय यज्ञस्योखे उपदधाम्यहम् । पशुभिः संनीतं बिभृतामिन्द्राय शृतं दधीति वा ।
अनोखे इति द्विवचनं प्रातर्दोहोखापेक्षम् । अत एव सनीतमिति शृतं दधीति च दधिपयसोः संस्तवः । तद्यद्यप्ये कैकस्मिन्दोहे न संभवति तथाऽपि व्यक्तिविशे- पोपस्थित्या नातिमात्र स्तूयते । महेन्द्रपदवानपि ज्ञेयो मन्त्रः ।
भृगूणामङ्गिरसां तपसा तप्यस्वेत्यङ्गारैः परीन्धे ।
इन्धे दीपयति परितः। .