सामग्री पर जाएँ

पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(१७-१८ प्रश्नाः) Satyaashada Srautasutra.pdf/१५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सत्यापाविरचितं श्रौतसूत्रम्- . [१७ प्रश्नेत्येवं परिस्तरणान्तम् । सवनायवत्तदान मेवाग्नये नयेत्यादिसौमिकं कर्म । पशुपाप्रसादनकाले तिस्रः पशुरशना द्वे यूपरशने । तथैव वपाश्रपण्यादयः । आश्विनं गृहीत्वा यूपं संमार्जनकाले खलेवाली यूपो भवति । यूपः स्थाने पूर्वमेव निहितो भवति । तदनुसारेण . यूपकल्पनादि वृक्षनियमतक्षणच्छेदनाष्टास्त्री(श्री)करणश्चयणसंमार्जनादयो निवर्तन्ते । अपरः संस्कारश्च निवर्तते । स्फ्याकृतिर्वा लेङ्गले(लाङ्गली)षाकृतिर्वा । खलेवाली लोकप्रसिद्धैव । आश्विनग्रहणोत्तरकालं खलेवाल्याज्यमानीयानुब्रहीत्यादि । यजमानो येन यूपान्कालेनानक्ति कालोऽपि स चषालो दृतमित्यर्थः। दृतं चषालभाग इति च्छन्दोगवचनात् । अद्वतमैन्द्रमसीत्यनक्ति सुपिप्पलेति प्रतिमुञ्चति । देवस्य त्वेति लुप्यते । रशनादेशे संमृशति । खलेवाल्यै परिव्ययमाणायानुब्रूहीत्यादि। द्वाभ्यां परिव्ययणं न स्वरुगूहनं, येन केनचिद्यज्ञियकाष्ठेनोपवेषवत् ॥ ४६॥

सवनीयकाले सह पशूनालभते ॥ ४७॥

अत्र सवनीयकाले सह पशूनालभते प्रथममाग्नेयं सवनीयमुपाकरोति स्थानात्।।४७॥

अग्नीषोमीयꣳ सवनीयमनूबन्ध्यां च ॥ ४८ ॥

अग्नीषोमीयानूबन्ध्ययोः प्रतिनिधिर्वक्ष्यते । न च सवनीयस्येति वाच्यम् ।। ४८ ॥

अग्नीषोमीयस्य स्थानेऽग्नीषोमीय एकादशकपालोऽनूबन्ध्यायाः स्थाने मैत्रावरुण्याऽऽमिक्षया यजेत ॥ ४९॥

गतः ॥४९॥

सदश्वः श्वेतो दक्षिणा ॥ १७.१.५०॥

बाह्रीकजातः सैन्धवोऽश्च इत्यर्थः । रुक्मप्रतिमु(यु)क्तं दद्यादित्यापस्तम्बः ॥ ५०॥

तमाङ्गिरसाय भ्रातृव्याय वा दद्यात् ॥५१॥

तमश्वमाङ्गिरसायाध्वर्यवे शत्रवे वा दानं वचनात् ॥ ११ ॥

द्वेष्यं वा ब्राह्मणं वृत्वा तस्मा अश्वꣳ श्वेतꣳ रुक्मप्रतियुक्तं दद्यात् ॥ ५२ ॥

कृ(क)तोरारम्भात्पूर्वमेव भ्रातृव्यः पश्चान्मित्रभूतः । एवं भूताय भ्रतृव्यायाध्वर्यवआङ्गिरसाय दद्यात् । अश्वं दक्षिणाऽपनीय इतरेषां केचिदुद्गातुरेव दीयत इति च्छन्दोगवचनात् । सुत्येऽहनि समाप्ते कतौ प्रतिपूरुषमितरेषां प्रतिपुरुषमेका गोर्दीयते छन्दोगवचनात् । सुत्येऽहनि ऋत्विग्भ्यः कश्चिद्दद्यादित्येवमश्चदानं कृत्वा विषाणप्रासनं सर्वमग्नि(ग्नी)षोमवत् । प्रागस्तमयादवभृथः । अनुबन्ध्यायाः स्थाने मैत्रावरुण्याऽऽमिक्षया, उदवसानीयान्तं, अस्य क्रतोराङ्गिरसोऽध्वर्युर्भवति ।। ५२ ॥