पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(१७-१८ प्रश्नाः) Satyaashada Srautasutra.pdf/११

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सत्याषाढविरचितं श्रौतसूत्रम्- [१७ प्रश्ने-- यक्ष्ये । उक्तानामन्यतरकामानां सर्वमग्निष्टोमवत्। एतेष्वग्न्युत्तरवेद्योर्विकल्पः । ताण्डिनां . चत्वारः साहस्रा ज्योतिरग्निष्टोमः प्रथमः सर्वज्योतिद्वितीयोऽग्निष्टोमो विश्वज्योतिरुक्थ्यस्तृतीय उभयसामाऽतिरात्रसंमित एव चतुर्थः ॥ २३ ॥

चत्वारः साद्यस्क्राः ॥ २४ ॥

चत्वारः साद्यस्का निकायिनो दीक्षानभूति सद्यः क्रियन्त इति सायस्काः ॥ २४ ॥

तेषां विशेषः ॥ २५ ॥

तेषां प्रथमस्य कर्मोच्यते ॥ २५ ॥

रथंतरसामा बृहत्सामोभयसामा वा प्रथमः। तस्मिन्कामाः सोमाहारे प्राधान्ये स्पर्धायां भ्रातृव्यवतस्तितीर्षा ॥ (ख० २) ॥ स्वर्गः पशवो वा ॥ २६ ॥

वसन्ते त्रयोदश्यां प्रातरग्निहोत्र हुत्वा साद्यस्केण यक्ष्ये स्वर्ग लोकमवाप्तवानीति पशुमान्भूयासमिति वा । विद्युदसि चतुरने सोमप्रवाकान्वृणीते । वर्गचतुष्टयस्य वरणार्थमृत्विजो नानाविश्ववस्थिता भवन्ति । एकः सोमप्रवाकोऽश्वचतुष्टययुक्तं रथमारुह्य तथैव द्रुतिं कृत्वा तथैवोत्तरतखिक्रोशं गच्छति । एकोऽश्वद्वययुक्तं रथमारुह्य प्रतीची दिशं प्रति क्रोशमात्रमेक एकाश्वयुक्तं रथमारुह्य तथैव द्रुतिं कृत्वा दक्षिणां दिशं प्रति क्रोशं गच्छति । तस्मिंस्तस्मिन्नवस्थिता ऋत्विनो भवन्ति । प्राच्या दिश्वध्वर्युरुत्तरस्यां ब्रह्मा पश्चाद्धोता दक्षिणत उद्गाता एवं गत्वा पूर्वस्यां दिश्यध्वर्युः पृच्छति । आङ्गिरसो भ्रातृव्यो यजमानस्य तं प्रति सोमप्रवाकमाह यज्ञशर्मणस्तृतीयेऽहनि सोमो भविष्यति कच्चिन्नाहीन इति पृष्टे नाहीनः साद्यस्क इति महाव्रतमेवोच इति जपितवन्तं रथेऽवस्थाप्य यजमानगृहं गच्छति सोमप्रवाकोऽध्वर्युः-पन्या नामासी (सि ) देवो देवमेविति च रथस्थ एव यजमागृहं गत्वा पितरो भूः, एवं ब्रह्माणमानयति उत्तरतः पश्चाद्धोतारं दक्षिणत उद्गातारम् । होत्रोद्गात्रोः स्वस्वसूत्रोक्तप्रश्नप्रतिवचनमिति भाष्यकृत् ।। - तानृस्विजो वृणीते होतृप्रभृतीन् । अथ मधुपर्कः सक्षेदं नान्दीश्राद्धं विधाय सक्षेदान्तं प्रकृतिवत् ॥ २६ ॥

पूर्वेद्युराग्नेयः सौम्यो बार्हस्पत्यश्च पशवः ॥ २७ ॥

पशुबन्धेन यक्ष्ये । उदवसाय न विद्युत्षड्ढोता पश्चिष्टयादौ शाखाहरणादिवेदिमान. काले आदित्यं मन्ना ( ना ) मीतिवत् । तत्र मध्ये दक्षिणतो यूपस्थानमिति यद्वदिह वेदिमानम् । तस्माद्वादशाङ्गुलवृद्धिमानदण्डस्य दशपदोत्तरवेदिरिति केचित् । अपरे तु शम्यामात्रामिति । यूपच्छेदनकाले यूपत्रयस्य ( यूपत्रीन् ) च्छेदनमुपशयस्य च धार