पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(१५-१६ प्रश्नाः) Satyaashada Srautasutra.pdf/९६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१ पटलः ] महादेवशास्त्रिसंकलितप्रयोगचन्द्रिकाव्याख्यासमेतम् । ३५१ प्रसङ्गात्प्रकरणवाधाञ्च वासिष्ठादय एव नाराशंसाद्यङ्गत्वेन विधीयन्ते । षष्ठी च संबन्धवाचिनी । सत्रेषु च सत्रिणां प्रत्येकमेव कर्तृत्वमिति स्थितम् । अतस्तत्र वासिष्ठावासिष्ठैः क्रियमाणो नाराशंसो वासिष्ठेनापि तावत्क्रियत एवेति अविगुणस्तथा तनूनपादप्यन्यैरतोऽयं कंचित्कल्पमाश्रित्य भिन्नकल्पा अप्यधिक्रियेन्नित्येवं प्राप्ते ब्रूमःवासिष्ठादीन्स्वामित्वेनोद्दिश्य तादयेन नाराशंसादि विधीयते । तादर्थ्य च ऋतुपकारद्वारेणोपपन्नमिति न फलकल्पनापत्तिः । एवं च धात्वर्थस्यान्यत्र विधानात्संनिकृष्टविधिर्भवति । प्रयाजोद्देशेन तु वासिष्ठादिविधौ धात्वर्थेऽन्यस्य विधानाद्विप्रकृष्टार्थविधानं स्यात् । ततश्च सत्रेऽन्यतरकल्पाश्रयणेऽन्येषां तेन ऋतूपकारालाभाद्विगुणः ऋतुर्न फलं साधयेत् । तस्मात्तुल्यकल्पानामेवाधिकारः ॥ २६ ॥

सावित्राणि होष्यन्तः संनिवपेरन्हुत्वा विनिवपेरन् ॥ २७॥

सावित्राणि जुहोति ( तै० सं० ५- १ ) इति विधिराग्निकः ॥ २७ ॥

पशुभिर्यक्ष्यमाणाः संनिवपेरन्निष्ट्वा निवपेरन्गृहपतिर्वाऽरण्योः संनिवपेरन् ॥ २८ ॥

पशभिरिति पश्चपश्चर्थम् । सर्वे याजमानं कुर्युः । जपानमन्त्रणोपस्थानादिषु प्रथममाविज्यं ततो याजमानमरण्योर्द्वयोर्गृहपतिर्वा । समारोपणादिनियम एका स्यादित्यर्थः ॥ २८ ॥

य इतोऽग्निर्जनिष्यते स नः सर्वेषां यदनेन यज्ञेन जेष्यामोऽनेन पशुबन्धेन तन्नः सहासह नः साधुतुल्या य एवं पापं करवत्तस्यैव तदित्युक्तम् ॥२९॥

पशुबन्धेन वायव्येन वा तदर्थं षड्ढोत्रादि निरूढपशुबन्धवदित्यर्थः ॥ २९ ॥

गृहपतिः समारोपयते । स्वयमितरे गृहपतिर्वा ॥१६.१.३०॥

अरण्योरात्मनि वा गृहपतेरेवाधिकार इतरे, अन्वारम्भणमात्रमिति भावः ॥३०॥

सर्वेषाम् ।। ३१ ।।

ऋत्विजामेव ।। ३१ ॥ अथ द्वादशाहे दीक्षायाः कालविशेष विधातुं शाखान्तरमतं च विधत्ते

शिशिरे दीक्षन्ते । वसन्त उत्तिष्ठन्त इति विज्ञायते ॥ ३२॥