१ पटलः ] महादेवशास्त्रिसंकलितपयोगचन्द्रिकाच्याख्यासमेतम् । ३४७
पस्वी स्यादसꣳश्लिष्टोऽस्य यज्ञः स्यात्तपस्वी स्याद्यज्ञमेव तत्सꣳश्लेषयतीति विज्ञायते ॥६॥
यजत इति यजमानमधिकृत्योच्यते, एकवचनात् । यजमानबहुत्वाद्वहुवचनं वक्ष्यमाणनियमात् । योऽतपस्वी स्यात्स एवाधिकारी, इति ॥ ६ ॥
पीवा दीक्षते । कृशो यजते ॥ ७॥
पीवाशब्दः शारीरबलदाार्थे प्रसिद्धः । कृशो यजत इति शरीरगतमांसादिधातु. शोषणेन पापक्षयो भवति । तथा चाऽऽश्वलायनेनोपसंहृतम् ‘यदा वै दीक्षितः कृशे भवति । अथ मेध्यो भवति ' इति ॥ ७ ॥
तत्र चोदकेन दीक्षादिसंख्याविकल्पः प्राप्त एका दीक्षा तिस्रो दीक्षा वा इत्यादिविकल्पस्य प्रकृतौ श्रुतत्वात्तं विकल्पमपवदितुं दीक्षासंख्यानियमं सूत्रयति
काम्या विद्यादष्टाचत्वारिꣳशतं कामयति ॥ ८॥
काम्या जानात्यष्टाचत्वारिंशदिनपर्यन्तमत्यन्तसंयोग इह द्वितीया स्यात् । द्वादशाह एकैकमहः सदीक्षोपसत्कमपवृत्त्ये(ज्ये)त कर्मणां पृथक्त्वेन तेषां प्रत्येकं ज्योतिष्टोमप्रकृतिकत्वा ( ११-४-५ ) दिति ॥ ८ ॥
पञ्चदश दीक्षेरन्नर्धमासायतनाः ॥ ९ ॥
क्रामयतीत्यन्वयः । आयतनाः परिमाणाः ॥
सप्तदश प्रजाकामाः ॥ १६.१.१० ॥
पजाकामा इति बहुवचनं यजमानबहुत्वाभिप्रायमिति गम्यते ।। १० ॥
एकविꣳशतिꣳ रुक्कामाः। त्रयोविꣳशतिं प्रतिष्ठाकामाः । चतुर्विꣳशतिं ब्रह्मवर्चसकामाः । त्रिꣳशतं मासायतनाः। त्रयस्त्रिꣳशतमोजस्कामाः। चत्वारिꣳ शतमिन्द्रियकामाः । चतुश्चत्वारिꣳशतं वीर्यकामाः । अष्टाचत्वारिꣳशतं पशुकामाः॥११॥
गतार्थः ॥ ११ ॥
अपरिमितं दीक्षेरन्नित्यन्ततो वदन्ति ॥ १२ ॥
ब्रह्मवादिनो वदन्ति । अपरिमितं यावत्कृशं भवति तावदित्यर्थः ॥ १२ ॥
तेऽप्यहीनस्य याजमाने स्थानिनः ॥ १३ ॥
येऽन्ये सप्तदशम्यो वादा अहीन एव ते स्थानिन इत्यापस्तम्बः ॥ १३ ॥