पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(१५-१६ प्रश्नाः) Satyaashada Srautasutra.pdf/९१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सत्याषाढविरचितं श्रौतसूत्रम्- [१६ प्रश्ने

अनेन सूत्रेण द्वादशाहयागविधिरुन्नेयः । तथा चारमच्छाखायां विधिः श्रूयते----'यः कामयेत प्रनायेयेति स द्वादशरात्रेण यजेत प्रैव जायते' (ले० सं०७-२-५ । ७-२-९) इति । स च द्वादशाहो द्विविधः-समूढो न्यूटश्च । तत्र समूढप्रकार: सूत्रकारेण दर्शितः-त्र्यनीकां व्याख्यास्यामः । ऐन्द्रवायवाग्रौ प्रायणीयोदयनीयौ दशमं चाहः । अथेतरेषां नवानामैन्द्रवायवाग्रं प्रथममहः । अथ शक्राप्रमथाऽऽअयणाग्रमेवं विहिता त्रिख्यनीका परिवर्तते यद्यव्यूढः' इति । एवं समूढप्रकारमुक्त्वा न्यूढप्रकारोऽपि तेनैव दर्शित:---न्यूढे स्वैन्द्रवायवायौ प्रायणीयोदयनीयावथेतरेषां द्वादशानामैन्द्रवायवानं प्रथममहः । अथ शुक्राग्रमथ द्वे आग्रयणाने अथैन्द्रवायवाग्रमथ द्वे शुक्राने अथाऽऽअयणाग्रमथ द्वे ऐन्द्रवायवाग्ने' इति ।। १ ।।

अथ द्वादशाहं प्रकारान्तरेण प्रशंसति-

ज्यैष्ठ्यमश्नुते स ह्येनमनुभवति ॥२॥

यो द्वादशाहोऽस्त्यसा ज्येष्ठस्य यज्ञः । तथा च शाखान्तरे श्रूयते-ज्येष्ठयज्ञो वा एष यद्वादशाहः स वै देवानां श्रेष्ठ। य एतेनाग्रे यजते । (ऐ० ब्रा० १९-३) इति ॥ २ ॥

अहीनः सत्रं च ॥३॥

सोऽयं द्वादशरात्रो द्विविधः । सत्ररूपोऽहीनरूपश्च । नन्वस्ति द्वादशाहस्याहीनत्वं सत्रत्वं च । तत्रैव चिन्त्यते –किमहीनसत्रयोर्लक्षणभेदो नास्त्युतास्तीति । तत्र नास्तीति तावत् प्राप्तम् । कुतः । ज्योतिष्टोमावृत्तिरूपस्य समानत्वात् । यथा द्विरात्रादीनामेकादशरात्रान्तानामहीनानामावृत्तौ ज्योतिधोमस्वरूपं तथा त्रयोदशरात्रादीनां सत्राणामिति प्राप्ते ब्रुमः-आसीरन्नुपेयुरिति चोदनाद्वयं यजमानबहुत्वं च सत्रलक्षणम् । यजतिचोदना यजमानबहुत्वचोदनाभावश्चाहीनलक्षणम् । वैदिकप्रयोगेषु तयोरव्यभिचारादिति सिद्धान्तः ।। ३ ।।

तस्याग्निकल्पो व्याख्यातः॥ ४ ॥

तस्य द्वादशाहस्य चित्योऽग्निनियतः काठको वा ॥ ४ ॥

गतश्रियश्छन्दसा यजेरन् ॥ ५॥

गता प्राप्ता श्रीयन स गतश्रीः शुश्रुवान् ग्रामणी राजन्यः । गतश्रिय इति बहुवचनं । सत्रे च बहुयजमानकत्वनियमात्तदर्थमिति भावः ॥ ५ ॥

यं कामयेत च्छन्दसा यजते सोऽस्मै कामः समृध्यते । यजते यजन्त इति चोदनं योऽत