पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(१५-१६ प्रश्नाः) Satyaashada Srautasutra.pdf/९०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

-१ पटलः ] महादेवशास्त्रिसंकलितप्रयोगचन्द्रिकाब्याख्यासमेतम् । ३४५

यत्पूर्वस्मिन्नहन्युत्तरस्मा अह्ने स्तोत्र्यमनुरूपं कृत्वा शꣳसति । तेनाहरभ्यासजति । तेन यज्ञꣳ संतनोति । यदतिप्रेष्यति तेनाहरभ्यासजति तेन यज्ञꣳ संतनोतीति ॥ ४७ ॥

यज्ञायज्ञियं प्रति यज्ञायज्ञियकाले । पयांसि आशीराइर्थानि विशास्ति । विविध .. प्रेष्यति । सूक्तवाककाले श्वः सुत्यामिन्द्राग्निभ्यामित्यादिनाऽपि । शेषं पूर्ववत् ॥ ४७ ॥

एतेषामेकस्मिन्नक्रियमाणे नमो ब्रह्मणे नमो अस्त्वग्नये नमः पृथिव्यै नम ओषधीभ्यः । नमो वाचे नमो वाचस्पतये नमो विष्णवे बृहते करोमि स्वाहेत्येतत्प्रायश्चित्तं जुहुयादेतत्प्रायश्चित्तं जुहुयात् ॥ (ख०३२) ॥ ४८ ॥

इति सत्याषाढहिरण्यकेशिसूत्रे पञ्चदशप्रश्नेऽष्टमः पटलः ।

इति सत्याषाढहिरण्यकेशिसूत्रे पञ्चदशः प्रश्नः ॥

एतेषामेकस्मिन्नपि कर्मणि पूर्वेयुरेवाक्रियमाणे जुहुयादेते आहुती । किं पुनर्द्वयोबहुषु वेत्यर्थः । द्विरुक्तिः प्रश्नसमाप्त्यर्थी ॥ ४८॥

... इति. सत्याषाढहिरण्यकेशिसूत्रव्याख्यायां महादेवशास्त्रिसंकलितायां प्रयोगचन्द्रिकायां पञ्चदशप्रश्वेऽष्टमः पटलः । इति सत्यापाढहिरण्यकेशिसूत्रव्याख्यायां पञ्चदशः प्रश्नः ।।


16.1 अथ षोडशप्रश्ने प्रथमः पटलः ।

विनेययुक्ताखिलसिद्धवर्यः लसच्चिदानन्दसुखं मुनीन्द्रम् । नमामि सूत्रार्थविदे मुदाऽहं हिरण्यकेश्याख्यगुरुं कृपाब्धिम् ॥ प्रायश्चित्तं पञ्चदशे प्रश्न च समुदीरितम् । व्याचष्टे षोडशप्रश्ने द्वादशाहविधिं ततः ।। अथ द्वादशाहस्य कर्मोच्यते

द्वादशाहेन प्रैव जायते ॥ १ ॥