पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(१५-१६ प्रश्नाः) Satyaashada Srautasutra.pdf/८५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२४० : सत्याषाढविरचितं श्रौतसूत्रम्-...... [१५ प्रश्ने

विकृतिषु स्त्रीपशुरालब्धव्या । यद्यष्टापदीत्यनुबुध्येत । गर्भिणीत्यर्थः । गर्भपादः सहास्या अष्टौ पादा भवतीति कृत्वा गर्भप्रदर्शनार्थत्वाच्च । गर्भद्वित्वादिना द्वादशप. यादावपि समानोऽयं विधिः । ततः प्रासंज्ञपनादनुवोधे तामुत्सृज्यान्यामुपाकुर्यात् । परतस्त्वनुवोधे-धाता रातिः सूर्यो देव इत्याहुती जुहुयात् ॥ १५ ॥

यस्यास्ते हरितो गर्भ इत्यभिमन्त्र्याऽऽवर्तनवर्तयेति प्रदक्षिणं गर्भमावर्तयति ॥ १६ ॥

अथैनामध्वर्युरभिमन्त्रयत इत्यापस्तम्बः । गर्भिणीमभिमन्त्रयते.. यस्यास्ति " इति । विशसनकाले पशोरुपस्थं निर्गमानुगुणमावर्तयतीत्यर्थः ॥ १६ ॥

वि ते भिनद्मि तकरीमित्यन्तरा श्रोणी गर्भं निष्खिदति ॥ १७ ॥

तदावरकमल्वं नाम मेदं निखिदिति च्छिनत्ति ॥ १७ ॥

बहिस्ते अस्तु बालित्याशयाद्गर्भं निरस्योरुद्रप्सो विश्वरूप इन्दुरिति रसाय पात्रमुपयच्छति । शूलेन पशुश्रपणे निहत्य गर्भꣳ श्रपयति ॥१८॥

तत उर्वोमध्येन गर्ने निःसार्य शूले प्रणीक्ष्य( य ) शूलाग्रपोत( प्रोप्त है। कृत्वा निहत्य अपयति । गर्भश्रपणानुगुणमनिसमीपे शूलं निखाय शामित्रे श्रपयतीत्यर्थः।। १.८॥

पशुपुरोडाशं निरुप्य न( भ )क्ती द्यावापृथिवीयं गर्भपुरोडाशं निर्वपति ॥ १९ ॥

पशुपुरोडाशनिर्वपणकाल एव चेज्ज्ञाता गर्भिणीति तदा तन्निरुप्यानन्तरं गर्भपुरोडाशमनुनिपति । पुरस्तात्त ज्ञाने यदेव जानीयात्तदैव निर्वपेत् । स च मक्ती द्यावापृथि धीम्यां निरुप्यते, न गर्यदेवतायै । न चास्यैककपालधर्माः, शेषस्योत्तरत्र प्रतिपत्तिविधानात् । इतरथा सर्वहुतत्वेन शेषासंभवात् ॥ १९॥

पशोरवदानान्यवदाय गर्भस्य पुरस्तान्नाभ्या अन्यदवद्येदुपरिष्टादन्यदवदाय दैवतेष्ववदधाति ॥ १५.८.२० ॥

पशोर्दैवतेष्ववत्तेषु गर्भस्य नाम्या ऊर्वमेकमवदाय दैवतेषु क्षिपति । तदा अधस्तानाभ्या अवदाय सौविष्टकृतप्वित्यर्थः । पुरस्ताद्वै नाभ्यै प्राण उपरिष्टादपानं इति लिङ्गात् ।। २० ॥

रसं त्रैधं करोति । दैवतेषु सौविष्टकृतेष्वैडेषु च ॥ २१ ॥