पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(१५-१६ प्रश्नाः) Satyaashada Srautasutra.pdf/८४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

८ पटलः ] महादेषशास्त्रिसंकलितपयोगचन्द्रिकाव्याख्यासमेतम् । ३३९ यहि पशुमित्यारभ्य ये पशु विमनीरन्नित्यन्तं प्राग्यदुक्तं ब्राह्मणे तत्तत्रैवानुसंधातव्यमित्यर्थः । तत्र हि देशं पशु प्रकृत्योक्तम्-'याई पशुमाप्रीतमुदचं नयन्ति तर्हि तस्य पशुश्रपण' हरेत् ' इति । यहि यस्मिन्काले पशुमाप्रीतमिष्टप्रयाज संज्ञपनार्थमुदश्चं नयन्ति तर्हि तस्मिन्काले तस्य तस्मात्प्राजहितात्पशुश्रपणं शामित्राग्निं हरेदित्यर्थः । पुनश्च यजमानं वा एतद्विकर्षन्ते यदाहवनीयात्पशुश्रपणं हरन्तीत्याहवनीयादुद्धरणं निन्दित्वोक्तम् । स वैव स्यान्निर्मन्थ्यं वा कुर्यादिति । स एव प्राजहित एव योनिः स्यान्निर्मन्थ्यं वेत्यर्थः । पूर्वत्र चात्र च तवृत्ताभ्यां प्राजहितपरामर्श इत्येतदपि प्राञ्चमग्निं प्रहरन्तीत्यादिब्राह्मणपर्यालोचनयैव प्रत्येतव्यम् । बौधायनश्चाऽऽह-'स वैव स्यादिति पुराणगार्हपत्यमभ्युपदिशति ' इति । समानोऽयं विधिः सवनीयेऽपि तत्प्रकृतित्वात् । निरूढपशौ त्वाहत्यवचनादाहवनीयादेवाऽऽहर्तव्यः । पुनश्चोक्तं ब्राह्मणे-'यदि पशोरवदानं नश्येदाज्यस्य प्रत्याख्यायमवद्येत्सव ततः प्रायश्चित्तिः' इति । पशुसंवन्ध्येकमनेके वावदानं नाशदोषादिनाऽवदानायोग्यं स्यात्तस्य स्थाने धौवादाज्यादवोदित्यर्थः । तदुक्तं भरद्वाजेन–'यद्यद्धविस्तस्याऽऽज्यं प्रतिनिधिः' इति । कृत्स्ननाशे तु पुनरालम्भः।। " केचित्तु वपाहृदययोनाशेऽपि पुनरालम्भमिच्छन्ति तयोः पश्चात्मत्वसंभवात् । यथा आत्मा वपेति पशोर्दा आलब्धस्य हृदयम त्माऽभिसमेति, इति च । तदयुक्तम् । विशेषानुपदेशात् । अर्थवादमात्रत्वाच्चाऽऽत्मप्रवादस्य । तदुक्तं कात्यायनेन-~-अवदानहानी नाऽऽद्रियेत, हृदयनाशे त्वन्यमालमतेत्येके हृदयं पशुभिरिति श्रुतेः । सर्वेषां वाऽऽज्यस्य यजेत, अर्थवादमात्रं पशुवचन मिति । यदि मतमनवदानत्वाद्वपाया न तत्रायं विधिरिति तदुपोत्तरसूत्रे निरसिष्यते वपादीनां मात्राहीनत्वेऽप्येकदेशे विद्यमाने तेनैव यजेत प्रतिनिधिना द्रव्यप्राधान्यात् । यथोक्त मात्रापचारे तच्छेपेण समाप्नुयादिति ॥ १३ ॥

ये पशुं विमथ्नीरन्यस्तान्कामयेताऽऽर्तिमार्छेयुरिति कुविदङ्गेति नमोवृक्तिवत्यर्चाग्नीध्रे जुहुयात् आहवनीये( शामित्रे वा ) निरूढपशुबन्धे ॥१४॥

यदि दस्यवः पशु विमथ्नीरन् जीवन्तं मांसावस्थं वा वलात्कारेण हरेयुस्तांश्च यदि यजमानः कामयेताऽऽति प्राप्नुयुरिति तदाऽनया जुहुयात् । तदलाभे तु पलायितविधिखे भवति ॥ १४ ॥

यद्यष्टापदीत्यनुबुध्येरन्धाता रातिः सूर्यो देव इति द्वाभ्यां गार्हपत्ये जुहोति ॥ १५ ॥