पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(१५-१६ प्रश्नाः) Satyaashada Srautasutra.pdf/८३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३३८ सत्याषाढविरचितं श्रौतसूत्रम्- [१५ प्रश्ने

स्पष्टम् ॥ ६ ॥

यस्माद्भीषाऽपलायिष्ठा इति द्वितीयां पलायितेऽनागच्छत्यन्यं तद्रूपं तद्वर्णं तद्वयसं तज्जातीयं तद्दैवतमुपाकृत्य तेन सꣳस्थापयेत् ॥ ६॥ तज्जातीयेऽविद्यमाने अजा अवयो गाव इत्यन्योन्यस्य प्रतिनिधयो भवन्ति ॥ ७ ॥

अपक्रमणं पलायनम् । अनागच्छत्यन्यं तद्रुपवर्णवयसं तदैवतमुपाकृत्य यजेत ' इत्यापस्तम्बः । तस्मिन्नागमयितुमशक्ये सति संस्थानवर्णवयोभिस्तत्सदृशं ताजातीयमन्यमुपाकुर्यात् , तज्जातीयालाभे प्रतिनिधिरुक्तः सूत्रकारेण - 'अजा अवयो गाव इत्यन्योन्यप्रतिनिधयो भवन्तीति ॥ ६ ॥ ७ ॥

तेष्वविद्यमानेष्वाज्येन शेषꣳ सꣳस्थापयेत् ॥८॥

स्पष्टोऽर्थः ॥ ८॥

यस्माद्भीषा समज्ञास्था इति द्वितीयामकामसंज्ञपने ॥९॥

स्वयं व्याध्यादिना मरणमकामसंज्ञपनम् ॥ ९॥

य इदमकस्तस्मै स्वाहेति सर्वोत्तमां जुहोति ॥ १५.८.१० ॥

उत्तमा तृतीयामित्यर्थः । सर्वत्र तृतीयामित्यापस्तम्बवैखानसौ ॥ १ ॥

न वा उ वेतन्म्रियसे । आशानां त्वा विश्वा आशाः । आपो हि ष्ठा मयोभुव इति चतसृभिः पशुं व्यापन्नमभिमन्त्र्यापोऽभ्यवहृत्यान्यं तद्रूपं तद्वर्णं तद्वयसं तज्जातीयं तद्दैवतमुपाकृत्य तेन सꣳस्थापयेत् । तज्जातीयेऽविद्यमाने ॥(ख०२९)॥ पलायिते व्याख्यातम् ॥ ११ ॥

मृतं पशुमपोऽभ्यवहृत्य पूर्ववदन्येन यजेत ॥ ११ ॥

उखाꣳ स्रवन्तीमगदामकर्माग्निर्होता पृथिव्यन्तरिक्षं द्यौर्यदतश्च्युतदग्नावेव तन्न तत्प्राप्नोति निर्ऋतिं पराचैरिति पशूखाꣳ स्रवन्तीमभिमन्त्रयेत ॥१२॥

भिन्नां स्त्रवन्तीमभिमन्यान्यामुखां संस्कृत्य निवेशयेत् ॥ १२ ॥

यावन्ति पशोरवदानानि न विन्देयुस्तावत्कृत्व आज्यस्यावद्येत ॥ १३ ॥