पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(१५-१६ प्रश्नाः) Satyaashada Srautasutra.pdf/८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१ पटलः ] महादेवशास्त्रिसंकलितप्रयोगचन्द्रिकाव्याख्यासमेतम् । २६३

सर्वाधानपक्षे स्मार्तकर्मणां लोप एव श्रौतेन चरितार्थत्वात् । अग्नीकरणादि केचिल्लौकिकानले कुर्वन्ति । दक्षिणाग्नौ पैतृकं कर्म क्रियत इति निर्देशात् , अग्नीकरणादि तत्रैव विध्यपराध इति वचनात्पुरुषापराधे तु श्रौतस्मार्तप्रायश्चित्तं भवति ॥ १ ॥ .. यथा पर्याहितानामेककार्याणां यूपादीनां विकल्पो द्रष्टव्यः । खदिरपलाशादीनामिहाप्येकनिमित्तानां विकल्पः स्यादत इदमुच्यते- .. .... ...:

एकस्मिन्दोषे श्रूयमाणानि समभ्युच्चीयेरन्प्रायश्चित्तान्यर्थान्तरसंयोगात् ॥ २॥

एकस्मिन्दोष एकस्मिन्निमित्ते यानि विधीयन्ते प्रायश्चित्तानि समुच्चीयन्ते । तानि यथा-अग्निहोत्रस्कन्दने-अस्कान्द्यौः पृथिवीमित्यभिमन्त्रणम् । उपसर्गे- उन्नं भय पृथिवीमिति । अनशनमाहूतः सायं नाश्नीयादिति समुच्चय एतेषां भवतीति । किं कारणम् । अर्थान्तरसंयोगात् । अर्यादन्यदर्थान्तरम् । अर्थान्तरस्य भावोऽर्थान्तरत्वम् । तस्मादान्तरयोगात् । अर्थान्तरप्रयोजनं प्रयोजनादन्यत्वादित्यर्थः । अन्यत् प्रयोजनमभिमन्त्रणेनान्यदुपसर्गेणान्यच्चानशनेनातः समुच्चय इति । यद्यपि दोषनिर्घातप्रयोजनमेकं तदाऽप्येकस्मिान्नमित्तेऽनेकप्रायश्चित्तोपदेशाद्विकल्पस्य चान्याय्यत्वाहोपनि_तार्थश्च | तेन चावान्तरप्रकारभेदेन साधनतया समुच्चयोपपत्तेः पाक्षिकत्वमन्याय्यमिति समुच्चयः । यथा लोके- अक्षामयेऽतिदोषोऽन्योऽञ्जनेन हन्यतेऽन्यो न वाऽन्येनान्यो निपातशयनेनेति रोगपरिहारप्रयोजनक्येऽपि अवान्तरका दो यथा तद्वदोषनिर्घातादर्थत्वेऽपि समुच्चयः । उपदेशो यथार्थवादो नार्थान्तरभावो न भवति एकार्यतैव तत्र विकल्पो भवति, न समुचय इति । साक्षाहीहियवादिवदेककार्यतया श्रवणाभावेऽपि अर्थवादादेव प्रयोजनदा यत् प्रागवगम्यते तत्रापि विकल्पो युक्तः । यथा पथिकृद्यागः स्वर्गफलपतिपत्त्यर्थो वैश्वानरोऽपि तथैव । ततस्तयोर्विकल्म इति समुच्चयो न न्यायः । अदृष्टदोषोभयोरुपदेशादुभाभ्यामेव हन्यत इति । अवान्तर कार्यभेदा इति प्रागेवोक्तम् । यस्तु शाखान्तरस्थो विधिरेकेषामित्युच्यते । तत्रापि विकल्प एवाधिकविधेरनित्यत्वादिति । एकशाखीयप्रयोगोपदेशे शाखान्तरीयांशोपसंहार एकेषामिति न वक्तव्यम् । ततो यत्रैकेषामिति निर्देशस्तु तत्र विधीयमानप्रयोगादधिकधर्मोपदेश इत्यवगमादनित्यत्वादतः समुच्चयत्वम् । दर्शपूर्णमासातिपत्तो पाथिकृती वैश्वानरी च विहिते तयोंः समुच्चयः यत्र सामान्यविशेषभावस्तत्र सामान्यस्य विशेषेण बाधः । यथा-आहवनीयानुगमने सामान्येन ज्योतिष्मतीष्टिविहिता । अन्वाधाने कृत आहवनीयानुगमन आहुत्यन्तरं विहितं तत्र वाधः । यथा देवाञ्जनमगन्यज्ञ इत्येकेषामिति तत्राप्यदृष्टकार्यत्वात्समुच्चयसंभवेऽपि विकल्प एवं मतान्तरत्वेनोपन्यासात् ॥ २ ॥