पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(१५-१६ प्रश्नाः) Satyaashada Srautasutra.pdf/७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२६२ सत्यापादविरचितं श्रौतसूत्रम्- [१५ प्रश्ने

शब्दस्य विनाशपर्यायस्याकारान्तत्वाञ्चित्तिचित्तयोः सुडागमेन प्रायश्चित्तमिति रूपसिद्धिः । लक्षणाञ्च सुडागमो गणसूत्रवृत्तिकारेण प्रायस्य चित्तिचित्तयोः सुडस्कारो वेति पठितत्वात् । श्रुतौ लक्षणं प्रायश्चित्तस्योपदिष्टमिति पिण्डितार्थः । तत्र चोदयति सर्वकर्मसु श्रुतिलक्षणेषु प्रायश्चित्तम्, स्मृतिलक्षणमिति न वक्तव्यम् । तत्र परिहारः-अन्यानि कर्माणि श्रुतिलक्षणानि भवन्ति प्रायश्चित्तमेव श्रुतिलक्षणमित्येवमुच्यते । कस्तह्मर्थः । श्रुतौ लक्षणमात्रं प्रायश्चित्तस्योपदिश्यते । चिह्नमात्रं यथा. पुरोडाशः क्षायतीति । क्षायो दाहः । तल्लक्षणं प्रायश्चित्तस्य क्षायतीत्यत्र द्वयोर्बहूनां क्षाये प्रायश्चित्तम् । नैकस्यैव हविषः क्षाये । यद्यष्टो(टा)पदि(दी)त्यवबुध्येतेत्यत्र द्वादशपद्यां षोडशपद्यां वा प्रायश्चित्तसामान्यमात्रे नैमित्तिकं भवति । विध्यपराधे विधीयत इति कर्मविधिः । अपराधोऽन्यथा क्रिया, विधेरपराधो विध्यपराधः । तस्मिन्विध्यपराधेऽन्यथा भावे प्रायश्चित्तं विधीयते । यथायस्यानो वा रथो वाऽन्तराऽग्नी यातीत्यविधानेनान्तरागमनेन प्रायश्चित्तम् । यत्र तु विधिर्न तत्र प्रायश्चित्तं विहितत्वात् । यागार्थंगमने च न प्रायश्चित्तम् । अथवा श्नतिलक्षणं प्रायश्चित्तं विध्यपराधे विधीयत इत्येतदेके सूत्रम् । अर्थविशेषश्चान्य इति पूर्वसूत्रभेदमाश्रित्य पूर्वसूत्रेण श्रुतौ लक्षणमात्रमुक्तं न याक्दपेक्षितमुक्तम् । द्वितीयसूत्रेण विहितस्य पुरुषवृ(कृ)त्यापराधे प्रायश्चित्तं न विधानान्तरेण विहितस्यान्यथाभावे भवतीति । इदानीमेकसूत्रत्वमाश्रित्योच्यते । विधीयते ब्राह्मणेनेति कर्म विधिस्तस्यापरार्थेऽन्यथाक्रियायां श्रुतिलक्षणं विधीयते न स्मृतिलक्षणं विधानसा. सामर्थ्यात् । यत्र ह्यभयस्य प्रातः कर्ममध्येऽपि स्मृतित्वलक्षणं प्रमाणम् । आचमनवकर्माङ्गत्वेन वेदमूलस्मृतिदर्शनात्तत्रैवम् । ब्रह्मौदनार्थ औपासनं सर्वे निर्मन्थ्यं वेति त्रयः पक्षाः । औपासनैकदेशं वा स्थापनीयं सर्वमौपासनं वा स्थापनीयम् । अथवा तो विना निर्मन्थ्य वा स्थापनीयम् । तत्रानुगमने विषयमाह- औपासनैकदेशपक्षे पाकात्पूर्वमनुगतश्चेत् पुनरौपासनैकदेशमाहृत्याऽऽदधातीति । सर्वप्रायश्चित्तमनाम्नातत्वात । पाकादू. मनुगतश्चेत्पुनरेकदेशमाहृत्य पुनः पाकं कृत्वा न वरदानं न प्रायश्चित्तम् । सर्वमौपासनपक्षे. पाकात्पूर्वमनुगतश्चेदोपासनानुगमनप्रायश्चित्तं स्मृतिविहितम् । अयाश्चेति संधान कृत्वा सर्वमाहृत्य स्थापनीयम् । पाकादूर्ध्वमनुगतश्चेत्पूर्ववत्संधानविधिना संधाय स्थापनीयम् । निर्मन्थ्याग्निपक्षे पाकात्पूर्वमनुगतश्चेत् पुनर्निर्मन्थ्य स्थापनीयम् । पाकादूर्ध्वमनुगतश्चेत् पुनर्निर्मन्थ्यं स्थापयित्वा पाकः कर्तव्यः सर्वप्रायश्चित्तम् । द्वितीयाधानादिप्वीपासनैकदेशपक्षे तद्देशमाहृत्येत्यादिसर्वमौपासनपक्षे तन्तुमाते पथिकृतं च कृत्वा स्थापनीयम् । निर्मन्थ्यपक्षे लौकिकारणीद्वयमाहृत्य माथित्वा तमाहत्य स्थापनीयम् । यस्य तु सर्व आहितस्तस्य श्रोत्रियागारादाहृतमपि द्वितीयाधानादिषु स्थापनीयम् । बहुपत्नीकश्चेत् स्मार्तविधिनौपासनाग्निं संसृज्य तस्यैकदेशं सर्वं चा निधायाऽऽधानं कर्तव्यम् ।