पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(१५-१६ प्रश्नाः) Satyaashada Srautasutra.pdf/७७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

. . सत्याषाढविरचितं श्रौतसूत्रम्- [१५ प्रश्ने,

मदीधरद्ध्रुवं ध्रुवेण हविषा । तस्मै देवा अधिब्रुवन्नयं च ब्रह्मणस्पतिरिति चतसृभिरभिमन्त्र्य वरं ददाति ॥ (ख०२५) ॥ ८॥

सन्नेऽभिमन्त्रिते चाध्वर्युणा, वरं ददाति यजमानः ॥ ८॥

यदि नाराशꣳसꣳ स्कन्देद्यमध्वर्युरुत्तरं ग्रहं गृह्णीयात् । तं वषट्कारानुवषट्कृते हुत्वाऽऽप्यायस्व मदिन्तमेति तस्मादेनमाप्याययति तेनैनं भक्षवन्तं करोति ॥ ९॥

भक्षिताप्यायितश्चमसो नाराशंस इत्युक्तम् । स यदि शोषणादिना नश्येत्तदा यश्च. मसाप्यायनादनन्तरो ग्रह ऐन्द्राग्नादिस्तं स्वकाले हुत्वा चमसाध्वर्यवे दद्यात् । स च भक्षं शेषयित्वा तेन चमसानाप्याययति अनुप्रकम्पयति च द्विः । तदर्थत्वादाप्यायनस्य


देवाञ्जनमगन्यज्ञ इति प्रातःसवने सोम स्कन्नमभिमन्त्रयेत। गन्धर्वाञ्जनमगन्यज्ञ इति माध्यंदिने । पितृञ्जनमगन्यज्ञ इति तृतीयसवने । आप ओषधीर्वनस्पतीञ्जनमगन्यज्ञ इति नक्तम् । द्यावापृथिवी जनमगन्यज्ञ इति । तिरोअह्नियान्सोमे सोममभिगृह्य निदधाति ॥१५.७.१०॥

हविर्वा स्कन्ददित्यापस्तम्बः । हविः सवनीयादि । नक्तं रात्रिपर्यायेषु । तिरोअर्नेषु संधिचमसेषु । एवमनुक्रमणात्तिरोअर्नेभ्यः परेप्वप्तोर्यामचमसगणेषु नायं विधिभवति ॥ १०॥

पृषदाज्यꣳ स्कन्देद्यद्यथान्यद्दधि पृषदाज्यं गृहीत्वा द्रप्सश्चस्कन्द मनो ज्योतिर्जुषतामिति सꣳहिताभ्यामेकाहुतिं जुहोति ॥ ११ ॥

यदि पृषदाज्य स्कन्देदिति भरद्वाजः ॥ ११ ॥

यद्यृतुग्रहैः प्रचरन्तौ मुह्येयातां विसृष्टधेनाः सरितो घृतश्चुतो वसन्तो ग्रीष्मो मधुमति वर्षाः शरद्धेमन्त उत नो मयोभुव उदप्रुषो नभसी संवसाथाम् । आ नः प्रजां जनयतु प्रजापतिर्धाता ददातु परिवत्सरो नः । संवत्सर ऋतुभिश्चाक्रपाणो मयि पुष्टिं पुष्टिपतिर्दधातु ॥ आ देवानां त्वमग्ने व्रतपा