पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(१५-१६ प्रश्नाः) Satyaashada Srautasutra.pdf/७५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

. ३३० । सत्यापाढविरचितं श्रौतसूत्रम्- --- १५ प्रश्ने

V०१-५-२० ) इति । येषां त्वनुक्तमपच्छेदप्रायश्चित्तं ब्रह्मादीनां तेषां सर्वप्रायश्चित्तमेव सर्वत्र ।। ४२॥

यद्युद्गाता जघन्योऽपच्छिद्येत पुनर्यज्ञे सर्ववेदसं दद्यात् ॥ ४३ ॥

पूर्वसूत्रेण व्याख्यातम् ॥ ४३ ॥

यद्यार्भवे पवमानेऽपच्छिद्येत सर्वप्रायश्चित्तं जुहुयात् ॥ (ख०२४) ॥ ४४ ॥

इति सत्याषाढहिरण्यकेशिसूत्रे पञ्चदशप्रश्ने षष्ठः पटलः ।

यदि माध्यंदिने पवमान एतदेव । आर्भवे सर्वप्रायश्चित्तमेव सर्वेषों कृते जुहुयात् इति सत्याषाढहिरण्यकेशिसूत्रव्याख्यायां महादेवशास्त्रिसंकलितायां .. प्रयोगचन्द्रिकायां पञ्चदशप्रश्ने षष्ठः पटलः ।

15.7 अथ पश्चदशप्रश्ने सप्तमः पटलः॥

यदि सोम उपदस्येत्सुवर्णꣳ हिरण्यं द्वैधं विभज्यार्धमृजीषेऽन्तर्धायापोऽवनयेदर्धमभ्युन्नीय ग्रहैः प्रचरेत् ॥ १ ॥

हिरण्यस्या) द्रोणकलशेऽवधाय वसतीवरीग्रहीत्वा तासु पयः क्षिपेत् । तत्सोमस्थाने भवति । तस्मात्तु येषां ग्रहण ग्रहाणां चमसानामर्धमभ्युन्नीय होमः पूर्ववत् ।।१।।

ब्रह्मण उद्गात्रे होत्रेऽध्वर्यवे च चतुरो वरान्दद्यात् ॥ २ ॥

उक्तोऽर्थः ।। २॥

यद्याग्रयणः स्कन्देदुप वा दस्येदितरग्रहेभ्यो निगृह्णीयात् । यदीतरे ग्रहाः स्कन्देयुरुप वा दस्येयुराग्रयणान्निगृह्णीयात् । अन्याञ्छुक्राद्ध्रुवाच्च ॥३॥

गतः । शुक्रध्रुवरहितानां ग्रहाणां कलशस्य चाऽऽग्रयणो योनिरिति ॥ ३॥ अथान्य विधिमाह--

द्रोणकलशान्निगृह्णातीति सर्वग्रहाणाꣳ स्कन्नानामुपदस्तानां वेति विज्ञायते ॥४॥