पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(१५-१६ प्रश्नाः) Satyaashada Srautasutra.pdf/७३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

- ३२८ : ... सत्यापाढविरचितं श्रौतसूत्रम् । १५ प्रश्ने

यद्येकेन पञ्चदशभिर्होत्रे स्तुयुः । तिसृभिस्तिसृभिरितरेभ्यः ॥ ३३॥

योकेन पर्यायेणास्तुते व्युछेत्तदा होतुः स्तोत्रं यथाप्रकृत्येव पञ्चदशभिः स्तुयुः । इतराणि पञ्चभिः । अत्रेयं मीमांसा-'किमयमभिव्युष्टिशङ्कायामेव विधिरुताभिव्युष्टी - सत्याम्' इति । शङ्कायाम्, इति ब्रूयात् । कुतः । ब्राह्मणेष्वभिब्युच्छेदित्येवाऽऽन्नानात् । नियतपरिमाणभूतासु स्तोमवचनानुपपत्तेश्च । न हि नियतकालपरिमाणा सर्वत्राभिव्युष्टि. थेन तत्परिमिताः स्तोमा. नियन्येरन् । अतः सत्यामभिव्युष्टौ नैमित्तिको हासः । न त्वनभिव्युष्टयर्थ इति सांप्रतम् । तदुक्तमुपग्रन्थकारण-अभिव्युच्छेदित्येव शाट्यायनिब्राह्मणं भवति । तथा भाल्लविनां तथा कालविनां तथा तैत्तिरीयाणां तथा सर्वेषां विभक्त्युपनिपात एव स स्यात् । अथापि चेदनभिविवासार्थोऽभविष्यदपरिमितः स्तोमोऽमविव्यत् । यथां नामिविवसेत् तथा स्तुवीरन्नित्येवाभविष्यत् । न ह्यनभिविवासार्थे परिमाणमुपपद्यते । तेन तु परिमाणग्रणेन जानीमोऽभिव्युष्टया संयुक्त एवायं कल्पो भवतीति अग्ने विवस्वदुषस इत्याश्चिनस्य प्रतिपदं कुर्वीरन् ॥ ३४ ।।

अग्ने विवस्वदुषस इत्याश्विनस्य प्रतिपदं कुर्वीरन् ॥ ३४ ॥

xxx

यस्याऽऽश्विने शस्यमाने सूर्यो नोदियात्। सर्वा अपि दाशतय्यः शꣳसेत् । सौर्यं पशुं बहुरूपमपाकुर्यात् । यस्याऽऽश्विने शस्यमाने सूर्यो नाऽऽविर्भवतीति विज्ञायते ॥ ३५ ॥

यदा सूर्यो न प्रकाशते मेघादिच्छन्नस्तदा संधिचमसेषु भाक्षितेषु नानावर्णश्छाग आलभ्यते प्रसज्यते च तत्र सवनीयतन्त्रम् । दश मण्डलान्यवयवा अस्या इति दशतयी ऋक्संहिता । तस्या ऋचो दाशतयीर्दाशतयीरित्याहानतिभेदात् । ता बीरप्यनुब्रू. याद्वा यावत्सूर्यः प्रकाशते ॥ ३५ ॥

यदि समन्वारब्धानाꣳ सर्पतामुद्गाताऽपच्छिद्येत । यज्ञेन यजमानो व्यृध्येतादक्षिणः स यज्ञक्रतुः सꣳस्थाप्योऽथान्य आहृत्यः ॥ ३६ ॥

स यज्ञ उदवसानीयान्तः संस्थाप्यः । अथानन्तरे पर्वणि स एव ऋतुः पुनराह.र्तव्यः ॥३६॥

तत्र तद्दद्याद्यत्पूर्वस्मिन्दास्यन्स्यात् ॥ ३७॥

उक्तोऽर्थः ॥ ३७॥