पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(१५-१६ प्रश्नाः) Satyaashada Srautasutra.pdf/७१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३२६ सत्यापादविरचिवं श्रौतसूत्रम्- [१५ प्रश्ने

क्रियेरन्नावृता वेत्याश्वलायनः । कृतान्तादिति यावत्कर्म कृतं ततः परं तन्त्रमित्यर्थः । प्राग्वंशादिमण्डपदाहे तु न देवयजनान्तरं गम्यते ॥ २२ ॥

दग्धे तत्प्रायश्चित्तं यदपहृते ॥ २३ ॥

अभिदग्धे तु सोमे यदपहृतप्रायश्चित्तं यो नेदिष्ठी स्यादित्यादि तदेव भवति ॥२३॥

पश्चात्र गा दक्षिणा ददाति । पञ्च वरानित्येकेषाम् ॥ २४ ॥

या तत्रोक्ता गौरेको दक्षिणां दद्यादिति तस्याः स्थाने तत्र पञ्च दद्यात् । अनडु. होऽपि प्राप्त्यर्थे वरवचनम् । प्रवृत्तद्रव्यस्य लाभे त्वत्रापि प्रकृत्या समाप्तिद्रष्टव्या॥२४॥

यदि ग्रावा दीर्येत द्युतानस्य मारुतस्य साम्ना स्तुवीरन् । ब्रह्मसाम्नेत्येकेषाम् ॥ २५ ॥

यदि प्रातःसवने यावा शीर्यंत पुरस्ताहिष्पवमानादित्यापस्तम्बः । दीर्यंत खण्डितः स्यात् । धुतानस्य मारुतस्य यत्साम तेनात्र स्तुवीरन् । यद्यपि न तस्य च्छन्दोगैब्रह्मसामत्वमुक्तं तथाऽप्यत एवानुवादात्वचिद्विधिद्रष्टव्यः ॥ २५ ॥

यदि प्रातःसवने कलशो दीर्येत वैष्णवीषु शिपिविष्टवतीषु स्तुवीरन् ॥ २६॥

व्याख्यातमिदं ब्राह्मणे-'यदि प्रातःसवने कलशो दीर्यंत वैष्णवीषु शिपिविष्टवतीषु स्तुवीरन् यदि मध्यंदिने दीर्थेत वषट्कारनिधन साम कुर्युः । यदि तृतीयसवन एतदेव ' इति । तद्यथा ब्राह्मणमेवानुसंधातन्यमित्यर्थः । कलश इति द्रोणकलशस्यैवैकदेशग्रहणं, यथा सत्यभामा भामा भीमसेनो मीम इति । दीर्येत भिद्येत ॥ २६ ॥

यदि माध्यंदिने दीर्येत वषट्कारनिधनꣳ साम कुर्युः । यदि तृतीयसवन एतदेव ॥ २७॥

निधनमन्तिमा भक्तिः । तद्वषट्कारो यस्य तद्वषट्कारनिधनं तत्साम गायेयुः॥२७॥

यदि कलशो दीर्येत वषट्कारनिधनं ब्रह्मसाम कुर्युरित्येकेषाम्। सर्वेषामनवयवेन श्रूयते॥(ख०२२)॥ ॥ २८ ॥ असवे स्वाहा वसवे स्वाहा विभुवे स्वाहा विवस्वते स्वाहा गणश्रियै स्वाहा मलिम्लुचाय स्वाहा शूषाय स्वाहेति सप्ताऽऽहुतीर्हुत्वेन्द्रस्य ग्रहोऽस्य गृहीतो ग्राह्यो देवानां पूरसि तं त्वा प्रपद्ये सह ग्रहैः सह पशुभिः सहर्त्विग्भिः सह सौम्यैः सह सदस्यैः सह दाक्षिणेयैः सह