पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(१५-१६ प्रश्नाः) Satyaashada Srautasutra.pdf/६९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सत्यापादविरचितं श्रौतसूत्रम्- १५ प्रश्ने

क्रीतस्यापहरणे यो नेदिष्ठी नेदिष्ठः सोमसनिकृष्टदेश इति यावत् । ततो यावदर्थमाहृत्य तमेवामिषुणुयादित्यर्थः ॥ १३ ॥

सोमाहाराय सोमविक्रयिणे वा किंचिद्दद्यात् ॥ १४ ॥

य इदानीं सोमस्य हर्ता यो वा पूर्वः सोमविक्रयीं तयोरन्यतरस्मै यथाश्रद्धं दयात् ॥ १४ ॥

यदि तं न विन्देयुः पूतीकानभिषुणुयात् । यदि न पूतीकानथ फाल्गुनानि । यदि न फाल्गुनान्यथार्जुनान्यथाऽऽदारान् । यदि नाऽऽदारान्या एव काश्चाऽऽर्द्रा ओषधीराहृत्याभिषुणुयात् ॥ (ख०२१) ॥ १५ ॥

पूतीकादय ओषधिविशेषाः | फाल्गुनानि तृणविशेषाः । तेप्वादाराः फाल्गुनानि च समुच्चीयन्ते । तत्राप्यापस्तम्बीये विशेष:--'पूतीकाभाव आदारान्फाल्गुनानि च यानि श्वेततूलानि स्युस्तदभावे याः काश्चौषधीः क्षीरिणीररुणदूर्वाः कुशान्वा हरितानिति । वाजसनेयकम् । अप्यन्ततो ब्रीहियवान् ' ( आप० श्री० १४-८-१३ ) इति । तत्राऽऽदारादयोऽपि सोमस्यैव प्रति निधयो न पूतीकादेः सोमस्याङ्गत्वात् । तेन सर्वेषां तद्धर्मतच्छब्दी भवतः । हरितानित्येव सर्वालामेऽपि इरितान्त्रीहिस्तम्बान्यवस्तम्बान्वाऽभिषुणुयान्न त्वसमाप्य विरमेदित्यर्थः ॥ १५॥

प्रतिधुक्प्रातःसवने पूतीकाꣳश्च । दधिं च माध्यंदिने सवने पूतीकाꣳश्च । शृतं च तृतीयसवने पूतीकाꣳश्च ॥ १६ ॥

प्रतिधुगादयः पूर्तीकाश्च सहाभिषूयन्ते, न तु श्रयणं प्रतिधुगादिभिरित्यर्थः ।।१६ ॥

अपिवा प्रतिधुषा प्रातःसवने सर्वान्सोमाच्छ्रीणाति । शृतेन माध्यंदिने सवने दध्ना तृतीय सवने नीतमिश्रेण ॥ १७ ॥

सर्वेप्वप्येतेषु प्रतिनिधिकल्पेषु प्रतिधुगादिभिः सर्वसोमानां श्रयणं स्यात् । समुच्चीयते च तत्तत्प्राकृतैः श्रयणैमत्रावरुणादीनाम् । प्रतिधुगशतं दुग्धमात्रं पयः । तथा च भरद्वाज:-प्रतिधुगिति दुग्धमात्रं स्यात् । इति । नीतमिति नवनीतम् | तन्मिश्रेण केवलेन वा दध्ना श्रयणम् ॥ १७ ॥

अग्निष्टोमः सोमः स्याद्रथंतरसामा ॥ १८ ॥

आरब्धः ऋतुरग्निष्टोमान्त एव कार्यों रथंतरसामा च यद्यपि संस्थान्तरं सामान्तरं वाऽभिहितमासीत् ।। १८ ॥