६ पटलः ] महादेवशास्तिसंकलितमयोगचन्द्रिकाच्याख्यासमेतम् । ३२.३
प्रणीत आहवनीये तूष्णीमग्निꣳ हरति ॥ ५॥
प्रणीतेऽनौ तूष्णीमन्यं प्रणयेत् । मन्त्रवन्तमित्यपरम् ' ( आप० श्री० १४८-१०) इत्यापस्तम्बः । प्रणीतेऽग्नावृत्तिष्ठत इत्यनुषङ्गः । स्पष्टमन्यत् ॥ ५ ॥
संचितेऽग्नावुत्तिष्ठतो न साम्युत्थानेऽग्निचयनं विद्यते ॥ ६॥
चितेऽग्नावृत्तिष्ठतो नाग्निचित्या विद्यते । तूष्णीं वाऽग्निं चिन्वीत । मन्त्रवन्तमित्यपरम् ' इति भरद्वाजः ॥ ६ ॥
प्राचीनमुदीचीनं वोदवसाय विहारꣳ साधयित्वा सर्वपृष्ट्या (ष्ठया) यजेत । सर्वक्रतुभ्य आगूर्याशक्यमाने यष्टुम् । त्रैधातवीयया सत्रे तु विश्वजितातिऽरात्रेण ॥ ७॥
आगोरणं मनसा संकल्पः । वाचा चेत्यपरम् । सूत्रार्थः पूर्वैाख्यातः ॥ ७ ॥
यदि सुन्वतामाहवनीयोऽनुगच्छेदाग्नीध्रात्प्रणयेयुरेनं यद्याग्नीध्रो गार्हपत्याद्यदि गार्हपत्यो मन्थेयुरेनम् ॥ ८ ॥
सुन्वतामिति जात्याख्यायामिति बहुवचनम् । नतु सत्रार्थम् । औत्तरवेदिकस्याऽsगांधीयोऽग्निोनिस्तस्यापि शालामुखीयः । तस्य त्ववक्षाणमन्थनम् । प्राक्त्वानीध्रप्रणयनादौत्तरवेदिकस्यान्वाहितविधिना प्रणयनं शालामुखीयात् । तस्य तु तेनैव विधिना मन्थनं प्र[स]क्त्वौत्तरवेदिकप्रणयनात्तेनैव विधिनाऽस्य प्रणयनं प्राजहितात् । प्रानहि. तदक्षिणाग्निसम्यावसथ्यानां तु यथाप्रकृत्यवाहितविधिरेव सर्वत्र ॥ ८ ॥
यस्माद्दारोरुद्वायेत्तस्यारणी कुर्यात् ॥ ९॥
अत एव पुनर्मन्थेदित्युक्तम् । तत्र यद्दारुगतोऽग्निरन्ततोऽनुगच्छेत्तच्छित्त्वाऽरणी परिकल्प्य मन्येत् ॥९॥
क्रमुको भवति ॥ १० ॥
धनुरादिनिलेखनप्रभवाः शकलाः क्रमुकः, तत्रेन्धनार्थे भवति ॥ १०॥
ब्रह्मण उद्गात्रे होत्रेऽध्वर्यवे च चतुरो वरान्दद्यात् ॥ ११ ॥
मुख्याश्चत्वारो महत्विजः ॥ ११ ॥
यद्यकीतꣳ सोममपहरेयुरन्यः क्रेयः ॥ १२ ॥
प्राक्क्रयादपहरणे पुनराहृत्य क्रय एव कार्यों नान्यत्प्रायश्चित्तमित्यर्थः ॥ १२ ॥
यदि क्रीतं यो नेदिष्ठी स्यात्तत आहृत्याभिषुणुयात् ॥ १३ ॥