पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(१५-१६ प्रश्नाः) Satyaashada Srautasutra.pdf/६७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३२२ सत्यापाढविरचितं श्रौतसूत्रम्- १५ प्रश्ने

यावज्जीवश्रुतेः । नित्यानां निवृत्तिः । अग्निहोत्रं तु मृतहोभे न क्रियते चतूरात्रमहूयमानानां लौकिकत्वश्रुतेः । अग्नेर्गुप्त्यर्थत्वादिति अनुपदकारवचनाच्च । केचित्त्वयमानाग्नीधारयन्ति | संवत्सरेऽस्थीनि याजयेयुरिति वचनान्न लौकिका भविष्यन्तीति मृतपत्न्यस्थियज्ञेऽपि दीक्षिते पत्नीकर्म च करोति नेष्टिसमीपतः ॥ ४० ॥

यामेन साम्ना स्तुवते । द्वादशशतं दक्षिणा ॥ (ख०२०) ॥४१॥

इति सत्याषाढहिरण्यकेशिसूत्रे पञ्चदशप्रश्ने पञ्चमः पटलः॥ गतः ॥ ४१ ॥

" इति सत्याषाढहिरण्यकेशिसूत्रव्याख्यायां महादेवशास्त्रिसंकलितायां प्रयोग- . चन्द्रिकायां पञ्चदशप्रश्ने पञ्चमः पटलः ॥

15.6 अथ पञ्चदशप्रश्ने षष्ठः पटलः ।

यदि सत्राय दीक्षेताथास्य साम्युत्थानं जायेत । सोममय(वि)भज्य विश्वजिताऽतिरात्रेण सर्वस्तोमेन सर्वपृष्ठेन सर्ववेदसदक्षिणेन यजेत ॥१॥

सत्राय सत्रार्थम् । यज्ञशून्यसत्रेण यक्ष्य इत्युक्त्वा यदि न यजेत । यो यक्ष्य इत्युक्त्वा न यजत इति लिङ्गात् । याऽत्र योक्ष्य इत्युक्त्वेति विधिप्राप्तां धातवीयामेके सहस्रदक्षिणां समामनन्ति (आप० श्री० १४-८-२) इत्यापस्तम्बः। मा सहस्रदक्षिणा कार्या । सत्रे दीक्षित्वा रोगादिना निमित्तेन मध्य एवोत्यात्तुमिच्छेन्स सोमस्य स्वांशं गृहीत्वा स्वाग्नीश्च समारोप्य गत्वा कृतान्तादेव प्रक्रम्य विश्वनिद्विधिना ऋतु: समापनीयः । एवमतिरात्रेण सर्वस्तोमेन सर्वष्ठेन सर्ववेदसदक्षिणेन यजेत इति वचनात् । न चास्य सप्तदशोऽग्निष्टुद्भवति । अत एव विधेरयज्ञविभ्रषात् ॥ १ ॥

कृतान्तात्कर्माणि प्रतिपद्यते ॥ २ ॥

कृतान्तो यमः । तस्य संबन्धात्पैतृमधिककर्माणि प्रतिपद्यत इत्यर्थः ॥ २॥

अवलिख्योखायास्तैरन्यां मृदꣳ सꣳस्कृत्य कुर्यात् ॥ ३॥

यदि दीक्षासूतिष्ठासेदित्यापस्तम्बः । स चोखायाः पासूनपादाय तैरन्यां मृदं संसृज्य तूष्णीमुखां कृत्वा तस्यामुख्यमुत्पादयेत् ॥ ३ ॥

अवलिख्य पशुशिरसां तूष्णीकेष्वाश्लेषयेत् ॥ ४ ॥

तथा पञ्चपशशिरोभ्यो लेशानपादाय लौकिकेषु पशुशिरःस्वाश्लिष्य मृदा प्रलिप्य निदधाति ॥ ४ ॥