पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(१५-१६ प्रश्नाः) Satyaashada Srautasutra.pdf/६६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५ पटलः] महादेवशास्त्रिसंकलितप्रयोगचन्द्रिकाव्याख्यासमेतम् । ३२१

ग्रहा मैत्रावरुणाया वा । यामीषु सर्वस्तोत्राणि । स्तोत्रे स्तोत्रे वर्तमानेऽस्थिघटो निशीयते । मार्जालीयेऽअङ्गप्रधानभक्षान्निनीयन्ते ॥ ३७॥

अग्न आयूꣳषि पवस इति प्रतिपदं कुर्वीरन् ॥ ३८ ॥

अग्न आयपीति सर्वस्तोत्राणामारम्भः । अत्र विशेषमाहाऽऽपस्तम्ब:-'रथंतरसामैषां सोमः स्यात् । आयुरेवाऽऽत्मन्दधतेऽथो पाप्मानमेव विजहतो यन्तीति विज्ञायते । (आप० श्री० १४-७-२२) इत्यादि । रथंतरपृष्ठ एवायं स्तोत्रविधिः । अस्मिपत्नीसंयाजान्ते कृते तस्याग्नयोऽपशीयन्ते निर्मथ्य पितृमेधादिप्रकृतिवच्छेषं समापयन्ति । सत्रमहीन वा । यस्त्वकृतो दिवसस्तस्मादारभ्य मृतस्य च यत्कर्म तत्सर्वं कुर्वन्ति ! तस्मिन्निहरिपक्ष एष विधिरनाथस्य ॥ ३८ ॥

एतावदनाथे नाथवतस्तु दग्ध्वाऽस्थीन्युपनह्य यस्तस्य स्वो नेदिष्ठी स्यात्तं तस्य स्थाने दीक्षयित्वा तेन सह यजेरन् ॥ ३९ ॥

एतावदनाथे नाथवत इति हेतुवचनात् । यदि तु नाथवान्दग्ध्वाऽऽहर दहेत्युक्त्वा दक्षिणाग्नेरङ्गारेण कृष्णाजिनेऽस्थीनि बद्ध्वा निधाय तस्मिन्नपि न दृश्यन्ते । मृतस्य यः पुत्रः सोदयों भ्राता वा मृतस्य स्थाने दीक्षित आत्मसंस्कारे न वपनमिति केचि. द्वयाचक्षते । यस्याऽऽवृत्तिः । प्रेताग्नयस्तु ये दीक्षितास्त एव तिष्ठन्त्या ऋतुसमाप्तेः । येनेष्टयोऽग्नयस्ते गृहे तिष्ठन्ति नित्यकर्मापि तस्य क्रियते । प्रवासागतस्य चेन्न स्वयं तु पितृशुश्रूषां कुर्वन्प्रतिनिधियं एतेन सहेतरयाजमानस्तिष्ठति । मृतस्य यजमानस्य कर्म यः करोति ये वितरे यजमानास्ते ॥ ३९ ॥

संवत्सरेऽस्थीनि याजयेयुः। अग्निष्टोमः सोमो रथंतरं गौरवीतं वा साम सप्तदशः स्तोत्रो व्याख्याते ग्रहाग्रे स्तोत्रेऽस्थिकुम्भमुपनिदधाति ॥१५.५.४० ॥

संवत्सरे पूर्णेऽस्थीनि याजयेयुरिति श्रुतेः । जपो यजमानसंस्कारश्च निवर्तते । अर्थलप्ता आयुराशास्त इत्येवंविधा आशिषश्च । दक्षिणीया तु देवतापरिग्रहार्थेन न दीक्षार्थेन । अग्निष्टोम ऐन्द्रवायवाग्रा मैत्रावरुणाया वेत्येवमादि पूर्वास्थियज्ञवत् । अनुत्पन्ने तु मार्जालीये ये तक्षास्तेषां तु त्याग उत्करे । द्वादशमासात्मकमस्यास्थियज्ञस्य दक्षिणा उदवसानीयान्तं पृष्ठशमनीयं मैत्रावरुण्यामिक्षा वा कृत्वा क्रियतेऽस्थियज्ञ: ! एप विधिः सूत्रकाराणाम् । मीमांसकानां तु पृथक्पृथक् पृष्ठशमनीय सौत्रामण्यामिक्षां कृत्वा यथैव पूर्वयज्ञे दीक्षिताः सह(व)नेष्टिना(या) कुर्वन्ति । ते नैमित्तिको यजेत प्रमीत इति