पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(१५-१६ प्रश्नाः) Satyaashada Srautasutra.pdf/५६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५ पटलः ] महादेवशास्त्रिसंकलितमयोगचन्द्रिकान्याख्यासमैतम् । ३११

भूत्वा प्रभवति यजमानो यस्यैतां यज्ञे प्रायश्चित्तिं कुर्वन्ति ॥ (ख० १६) ॥ १५.४.५० ॥

इति सत्याषाढहिरण्यकेशिसूत्रे पञ्चदशप्रश्ने चतुर्थः पटलः ।

भूत्वा भूतिं प्राप्य प्रभवति प्रभुर्भवति समानानामीश्वरो भवतीत्यर्थः । प्ररोचनाप्रदर्शनमादरार्थम् ॥ ५० ॥ इति सत्यापाढहिरण्यकेशिसूत्रव्याख्यायां महादेवशास्त्रिसंकलितायां प्रयोगचन्द्रिकायां पञ्चदशप्रश्ने चतुर्थः पटलः॥

15.5 अथ पञ्चदशप्रश्ने पञ्चमः पटलः ।

अथ सोमप्रायश्चित्तान्युच्यन्ते

अग्निं नरो दीधितिभिररण्योर्हस्तच्युती जनयन्त प्रशस्तम् । दूरेदृशं गृहपतिमथर्युम् । अग्निनाऽग्निः समिध्यते सप्त ते अग्ने मनो ज्योतिर्जुषतां त्रयस्त्रिꣳशद्यन्मे मनसश्छिद्रं यद्वापो(चो)यच्च मे हृदः। अयं देवो बृहस्पतिः सं तत्सिञ्चतु राधसा ॥ विश्वकर्मा हविरिदं जुषाणः संतानैर्यज्ञꣳ समिमं तनोतु । या व्युष्टा उषसो याश्च याज्यास्ताः संदधामि हविषा घृतेन । अयाश्चाग्ने । त्वं नो अग्ने । सत्वं नो अग्ने । भद्रं कर्णेभिः शृणुयाम देवा भद्रं पश्येमाक्षभिर्यजत्राः । स्थिरैरङ्गैस्तुष्टु वाꣳसस्तनूभिर्व्यशेम देवहितं यदायुः । स्वस्ति न इन्द्रो वृद्धश्रवाः स्वस्ति नः पूषा विश्ववेदाः स्वस्ति नस्तार्क्ष्यो अरिष्टनेमिः स्वस्ति नो बृहस्पतिर्दधातु । पृषदश्वा मरुतः पृश्निमातरः शुभंयावानो विदथेषु जग्मयुः । अग्निजिह्वा मनवः सूरचक्षसो विश्वे नो देवा अवसागमन्निह । शतमिन्नु शरदो अन्ति देवा यत्रा नश्चक्रा जरसं तनूनाम् । पुत्रासो यत्र पितरो मदन्ति मा नो