पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(१५-१६ प्रश्नाः) Satyaashada Srautasutra.pdf/५३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३०८ सत्यापादविरचितं श्रौतसूत्रम्- [१५ प्रश्ने

अयमभिप्रायः-यागानहतापत्तिापत्तिः । सा चाऽऽर्यभोजनानहत्वलक्षणो दोषः। न तेन दुष्टपर्यायण व्यापन्नेन यजेत । तदप्स्वेव क्षिपेदिति । तथा चापो दुष्टं हविरभ्यवहरन्तीति प्रकृत्याह भरद्वाजः- 'कथं दुष्टं हविः स्यात् । यदायर्याणामभोजनीयं न तेन देवान्यजेत ' इति । तथा शिष्टभक्षप्रतिषिद्धं दुष्टमित्याह कात्यायनः । आश्वलायन श्चाऽऽह-व्यापन्नानि हवींषि केशनखकीटपतङ्गैरन्यैर्वा बीभत्सरिति ॥ ३७॥

यद्धविर्दुःशृतं यमदेवत्यं तद्यममेव गच्छतीति सꣳस्थाप्य तदन्वाहार्यपचने चतुःशरावमोदनं पक्त्वा चतुरो ब्राह्मणान्भोजयेत् ॥ ३८ ॥

हविर्ग्रहणाच्चरुपुरोडाशेप्वयं विधिरिति गम्यते नेतरविकारेषु । यदपक्कं विषमपक्कं वा तदुःशृतम् । तत्तस्यै देवतायै हुतमपि यमदेवत्यं भूत्वा यममेव गच्छति । तस्मातदारब्धं कर्म तेनैव हविषा संस्थाप्य ततश्चतुःशरावं पक्त्वा चतुरो ब्राह्मणान्भोजयेत् । एतदेवास्य प्रायश्चित्तमित्यर्थः ।॥ ३८ ॥

तेषां भार्गव एकः प्राशितॄणाꣳ स्यात्तेभ्यः समानो वरो देयः । सा प्रायश्चित्तिः ॥ ३९ ॥

एकस्य भार्गवनियमान्नविनियमो भोक्तृषु ॥ ३९ ॥

योऽदक्षिणेन यज्ञेन यजेत । स यज्ञः प्रक्षामोऽनायु(रु)र्वरा प्रतिष्ठिता देया सा प्रायश्चित्तिः ॥ १५.४.४०॥

दक्षिणाविशेषानाम्नाने यदि यत्किचिदोदनाद्यदत्त्वा यजेत स यज्ञः प्रक्षामो दग्ध इव भवति निर्यित्वादनायुरिव च भवति । 'यज्ञ आयुष्मान्स दक्षिणाभिः' इति श्रुतेः। अथ वा-अनायुरनायुष्यं च यजमानस्य स्यादित्यर्थः । तथाऽनायुर्यजमानः स्यादिति वैखानसभरद्वाजौ । तत्राभिप्रेतदक्षिणातुल्यमूल्यामुर्वरां दद्यात् । सर्वसस्याढ्या भूरुर्वरा ॥ ४० ॥

यद्यादिष्टां दक्षिणामन्तरियादुर्वरां दद्यात्सा प्रायश्चित्तिः ॥ ४१ ॥

अथ यदि चोदितामेव दक्षिणामदत्त्वा यजेत तत्रापि तत्तुल्योर्वरादानमेव प्रायश्चित्तं नेतरदित्यर्थः ॥ ४१!!

यद्यभागां देवतामावाहयेदाज्येनैनां यथोढां यजेत । पुरस्ताद्वा स्विष्टकृतः ॥ ४२ ॥

यद्यचोदितां देवतामावाहयेत्तां यथोढां यस्मिन्क्रम आवाहिता तस्मिन्नेव क्रमे यजेत हुतेषु वा नारिष्ठेषु । सा चाऽऽज्यहविष्वादुपांशुधर्मेण यष्टव्या । आवहनवचनं च निर्वा