पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(१५-१६ प्रश्नाः) Satyaashada Srautasutra.pdf/५२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४ पटलः] महादेवशास्त्रिसंकलितप्रयोगचन्द्रिकान्याख्यासमेतम् । ३०७

(यावदन्ते वा व्यापद्येत ॥ ३२ ॥

यावदन्ते कणि कृते ब्यापत्तिर्माता ततः परभाविन एव मन्त्राः प्रयुज्येरन् । पूर्वभाविनां तु सकृत्प्रयोगादेव सिद्धः कर्मोपकारः । त एव वा पूर्वप्रयुक्ताः स्वैः स्वैः कर्मभिरावर्तमानैः संपत्स्यन्त इति भावः ॥ ३२ ॥)

यदि तु प्रत्तदैवतमाज्येन शेषꣳ सꣳस्थापयेत् ॥ ३३ ॥

यदि प्रत्तदैवतं ततः स्विष्टकृदादि शेषमाज्येन निर्वर्तयेत् । न तु हविरन्तरमागमयेल्लोपयेद्वेत्यर्थः । यदा तु प्रत्तदैवतमपि प्रागेव प्रदानादृष्टमिति ज्ञायते तदा तु पुनरुत्पत्तिरेवासत्कल्पत्वात्प्रदानस्य । अत्र त्वाह कात्यायन:---.'अदोषो वा न वै देवाः कस्माच्चन बीभत्सन्ते इति श्रुतेः, इति ।। ३३ ॥

यस्य सर्वाणि हवीꣳषि ॥ (ख० १४)॥ नश्येयुर्वा दुष्येयुर्वाऽपहरेयुर्वाऽऽज्येन देवताः प्रतिसंख्याय यजेत ॥ ३४ ॥

यस्य त्वेकद्विबहुषु तन्त्रेषु यावत्संभवं सर्वाण्येवाप्रत्तदैवतानि हवींषि नश्येयुर्दाहादिना दुष्येयुर्वा केशकीटादिनाऽपहरेयुर्वा तानि दस्यवस्तदा यासां हविापन्नं ता देवताः प्रतिसंख्याय प्रदानार्थ गणयित्वा ध्रौवाज्येन प्रतिनिधिना यथाप्रकृत्येव यजेत, नोपांशुधर्मेण प्रतिनिधेस्तद्धर्मवचनात् । पशुधर्माज्यं भवतीति लिङ्गाच्च । आज्यानामपि व्यापत्तौ स्वात्स्वाद्योनेः स्वैः स्वैर्मन्त्रैः पुनर्गृहीत्वा यजेत ॥ ३४ ॥

अथान्यामिष्टिमनुल्बणां तन्वीत । यज्ञो हि यज्ञस्य प्रायश्चित्तिः ॥ ३५॥

अथ संस्थितायामिष्टौ तामेवेष्टिं पुनरनुल्बणामविकृतां कुर्वीत । यतो यज्ञस्याऽऽर्तस्य पुनरिज्यैव प्रायश्चित्तिः । तत्र तु सर्वहविप्पत्तिविषये सांनाय्ययोरप्ययमेव विधिशेषिकत्वादिष्यते, नाऽऽर्तिप्रायश्चित्तम् । आश्वलायनमतात्त्वाबाहनावमेवायं विधिः । यथा हविषां व्यापत्तावेल्हासु(१) देवतास्वाज्येनेष्टिं समाप्य पुनरिज्यति । तथा हविरावृत्ति प्रकृत्याऽऽह प्रागावाहनाच दोष इति । तथाऽप्यत्यन्त गुणभूतानामिति च । गुणभूतानामपि हविषामत्यन्तमावाहनात्यागूर्व च सर्वदाहे हविरावृत्तिः । नेज्यावृत्तिरित्यर्थः ॥ ३५ ॥

अपो व्यापन्नꣳ हविरभ्यवहरतीति विज्ञायते ॥ ३६ ॥

व्यापन्नं तु हविरप्सु क्षिपेत् ॥ ३६ ॥

ननु किमेतद्वचापन्नं नाम । तत्राऽऽह

यदार्याणामभोजनीयं स्यान्न तेन यजेत ॥३७॥