पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(१५-१६ प्रश्नाः) Satyaashada Srautasutra.pdf/४७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३०२ सत्यापादविरचितं श्रौतसूत्रम्- [१५ प्रश्भे

भूपतये स्वाहा भुवनपतये स्वाहा भूतानां पतये स्वाहेति स्कन्नमनुमन्त्रयेतेति सर्वहविषामनवयवेन श्रूयते ॥६॥

सर्वेषामेव हविषामर्थे श्रूयते नतु किंचिद्विशेषमवयुत्येत्यर्थः । केचित्त्वाहु:- सर्वहविषामित्यैष्टिकसर्वहविरभिप्रायं दर्शपूर्णमासप्रकरणे श्रुतत्वात् । अनवयवेनेत्यनेनापि तेष्वेव विषयकात्स्न्य विवक्षितमिति । तत्र त्वाह भरद्वाज:--'भूपतये स्वाहेति स्कन्नमनुमन्नयेतेत्येकेषाम् । न किंचन हविरधिकृत्य वदति । इति । तच्चेदमविशेषवचनं यत्राप्युक्तमभिमन्त्रणान्तरं तत्रापि तेन विकल्प्यते । समुच यत इत्यन्ये । यथा देवाञ्जनमगन्यज्ञ इत्यादौ । यत्र स्वनुक्तं तत्र नित्यमेवेप्यते। 'यथा यस्य हविनिरुतं स्कन्देदयस्य वा देवतायै गृहीतमहुतम् ' इत्यादौ । न बर्हिषि स्कन्ने हविषि प्रायश्चित्तमिष्यते, अस्कन हि तद्यर्हिषि स्कन्दति । इति श्रुतेः । तत्र त्वाह भरद्वाज:--'न बर्हिषि स्कन्ने प्रायश्चित्तमित्याश्मरथ्यः । यदि भूमि प्राप्नुयात्कुर्यादेव तन्त्र प्रायश्चित्तमित्यालेखनः । (भ. श्री०९-१३) इति ॥ ६ ॥

यदि कपालं नश्येदाश्विनं द्विकपालं निर्वपेद्द्यावापृथिव्यमेककपालम् । भार्गवो होता भवति । एकहायनो दक्षिणा ॥७॥

प्रयुक्तानां प्रागर्थकर्मणः' इत्यापस्तम्वः । अथ यदि कर्मणि प्रयुक्तानां मध्ये प्रागर्थकर्मणः पुरोडाशाधिश्रयणात्कपालं नश्येन्न दृश्येत तदैतां द्विहविष्का निर्वपेत् । तस्यां तु ऋत्विनियमात् प्रासङ्गिकत्वाच । तन्त्रिण एव होतारं भृगुवंश्यमागमयेत् । अविरोधाद्दक्षिणायाश्च समुच्चयः ।। ७ ।।

यदि भिद्येत गायत्र्या त्वा शताक्षरया संदधामीति तत्संधायाभिन्नो घर्म इत्यभिमन्त्र्यापोऽभ्यावहृत्याथान्यत्कपालꣳ सꣳस्कृत्य तद्वा पिष्ट्वाऽन्यया मृदा करणीयया कृत्वा घर्मो देवाꣳ अप्येत्विति कपालेष्वपि सृजति ॥ यदि प्रागुपधानाद्भिद्येत ॥ ८ ॥

यदि कर्मणि प्रयुक्तं कपालं मिद्येत तत्संधानाधैव्यैः संधाय मनो ज्योतिरित्याप.. स्तम्बीये संधानलिङ्गया तदभिजुहुयादित्युक्तम् । समानोऽयं विधिरेकदेशभेदेऽपि यथोक्तं न्यायविद्भिरर्थसमवायात्प्रायश्चित्तमेकदेशेऽपीति । भूमिभूमिमगादित्यध्वयोर्निव