पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(१५-१६ प्रश्नाः) Satyaashada Srautasutra.pdf/३२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पटलः ] महादेवशास्त्रिसंकलितप्रयोगचन्द्रिकाच्याख्यासमेतम् । २७

सौर्यमेककपालमेके समामनन्ति ॥ २४ ॥

सौर्यस्याऽऽप्रयणोक्ता एककपालधर्माः कार्याः । स चाऽऽग्नेयविकारः ॥ २४ ॥

तस्याꣳ सꣳस्थितायामनश्नन्तौ वाग्यतावेतदहर्जायापती अग्निमिन्धानावासाते ॥ २५ ॥

'सस्थितायामिष्टयामाहवनीयमेवैतदहरिन्धानावनमन्तौ वाग्यतावासाते यजमानः पत्नी च' (आप० श्री०९-२-७) इत्यापस्तम्बः । आहवनीयमेवेति तमेवाऽऽहवनीय सायहोमार्थमिन्धानावित्यर्थः । अथ वा सर्वाग्नीन्धनस्याऽऽश्वलायनादिभिरिष्टत्वातन्निवृत्त्यर्थ एवकारः ॥ २५ ॥

द्वयोः पयसा सायमग्निहोत्रं जुहुयात् । पूर्वमधिश्रित्योत्तरमानयेत् ॥ २६ ॥

द्वयोर्गवोरिति शेषः पूर्ववत् । यथा द्वयोः पयसा पशुकामस्य जुहुयादित्यत्रोक्तरीत्येत्यर्थः । तत्र पूर्वमधिश्रयणमुपकारार्थमिति गम्यते ॥ २६ ॥

यस्यानुद्धृतमग्निꣳ सूर्योऽभ्युदियाच्चतुर्ग्रहीतमाज्यं गृहीत्वा पूर्वः प्रतिपद्येतान्वङ्ब्राह्मण आर्षेयो बहुविदग्निमुद्धरेत् । अन्वङ्ङग्निहोत्रेणानुद्रवेदग्निं प्रतिष्ठाप्याग्निहोत्रमुपसाद्य ॥ (ख०७) ॥पुरस्तात्प्रत्यङ्ङासीन उषाः केतुना जुषतां यज्ञं देवेभिरिन्वितं देवेभ्यो मधुमत्तमꣳ स्वाहेत्येतच्चतुर्ग्रहीतꣳ हुत्वा नित्यमग्निहोत्रं जुहुयात् ॥ २७ ॥

व्याख्यातोऽभिनिनोचनविधिना । झ्यास्तु विशेषः-हिरण्यस्थाने जुह्वां चतुर्ग्रहीत हरेत् । तच्च प्रतिष्टापितेऽग्नावध्वर्युरग्निहोत्रमुपसाद्य पुरस्तादाहवनीयस्य प्रत्यङ्मुख उपविश्य-उषाः केतुनेति जुहुयादिति ॥ २७ ॥

तस्य स एव होमकल्पः । सा प्रायश्चित्तिः। यत्प्रातर्ऋतावतीते ॥ २८ ॥

आतमितोरप्राणन्नित्यादिवरदानान्तो होमकल्पोऽनन्तरविधिना समानः | तयाssदित्योपस्थानादि द्वयोः पयसा होमान्तं प्रायश्चित्तम् । यत्प्रातर्ऋतावतीते यत्प्रातःकाला. तिपन्ने सतीत्यर्थः ॥ २८॥

एतावन्नाना । नात्रानुगमयत्याहवनीयम् ॥ २९ ॥

तस्मिन्नेवाग्नौ मैत्रेष्टिः साहोमश्चेति भावः ॥ २९ ॥