पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(१५-१६ प्रश्नाः) Satyaashada Srautasutra.pdf/३०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२ पटलः] महादेवशास्त्रिसंकलितप्रयोगचन्द्रिकाव्याख्यासमैतम् । २८५

यस्यानाहृतमग्निः सूर्योऽभिनिम्रोचेद्यत्र दीप्यमानं परापश्येत्तत आहृत्यैनं प्रविशानीति वैष आधीयते ॥ १८॥

अहरहरेनमाहरेयुरिति दक्षिणाग्नावुक्तम् । तत्र यद्यनाहृतेऽसौ सूर्योऽस्तमियात्तदा पुष्टगृहादियोनिविशेषमनवेक्ष्य यत्र दृष्टोऽग्निस्तत आहृत्येतं प्रविशानीत्येष विधीयते । वाकारः प्रसिद्धौ । अथवा एतं प्रविशानीति वा तूष्णीं वा विधीयत इत्यर्थः । अमिनिनोचेदिति वचनादम्युदये तूप्णीमाधेयः ॥ १८ ॥

इति दक्षिणाग्नेरनुगतस्याऽऽधानकल्पः ॥१९॥

सर्वत्रानुगतस्यापि दक्षिणाग्नेर्यथायोन्युत्पाद्या(दनम )यमेवाऽऽधानप्रकार इत्यर्थः । दक्षिणाग्नेरिति वचनात् । सम्यावसथ्ययोस्तृप्णीमेवाऽऽधानम् । प्रायश्चित्तं तु सर्वेषु सर्वप्रायश्चित्तमेव, विशेषस्यानुफ्तत्वात् ॥ १९ ॥

यस्यानुद्धृतमग्निꣳ सूर्योऽभिनिम्रोचेत् ॥(ख०६)॥ अग्निहोत्रं पूर्वꣳ हरेयुः । अथाग्निमुद्धरेयुः । अपि वा दर्भेण हिरण्यं प्रबध्य पूर्वः प्रतिपद्येतान्वङ्ब्राह्मण आर्षेयो बहुविदग्निमुद्धरेत् । अन्वङ्ङग्निहोत्रेणानुद्रवेदग्निं प्रतिष्ठाप्याग्निहोत्रमुपसाद्याऽऽतमितोरप्राणन्नासित्वा वरं दत्त्वा हुत्वा भूर्भुवः सुवरित्युपतिष्ठेत वारुणं चरुं निवपेत् ॥ दोषावस्तर्नमः स्वाहेति जुहुयात् ॥ १५.२.२० ॥

अधिवृक्षसूर्ये प्रणयनस्योक्तत्वात् । तदतिक्रमे प्रायश्चित्तमिदम् । अत उद्धरणश देन प्रणयनं लक्ष्यते । यथा यस्याग्नावग्निमुद्धरेयुरित्यादौ । तथा यस्याऽऽहवनीयमप्रणीतमभ्यस्तमियादित्याश्वलायनः । तेनोद्धतेऽप्यप्रणीते भवत्येव प्रायश्चित्तम् । वेदार्थविदाय इति व्याख्यातं ब्रह्मौदने । तत्रैव बहुविषयं वेदनं यस्य स बहुवित् । अथवा ब्राह्मण आर्षेय उद्धरेदिति ब्राह्मणस्य व्याख्या बहुविदिति । तत्र च वेदनबहुत्वस्यापोक्षतत्वात् । यस्य यस्य यतो यतो वेदनप्रकर्षस्तस्य तस्य परिग्रहे गुणातिशय इति द्रष्टव्यम् । तत्रेमाहरणादारभ्य प्रागुव्वणादाहवनीयकर्मवर्जमध्वर्युणा कृते यजमानस्य परिकर्मी कश्चिद्दर्भण बद्धं हिरण्यं पुरस्ताद्धरेत् । तमन्वङ् अनुगतो बहुविदग्निमुद्धरेदविधिवत्प्रणयेत् । तमन्वङग्निहोत्रेणाध्वर्युरनुद्भवेत् । ततः परिकर्मिणा स्थापिते हिरण्ये बहुविदग्निं प्रतिष्ठाप्य मुञ्चति । ततोऽग्निहोत्रमुपसादयत्यध्वर्युः । नित्यमिति सूत्रान्तरे