पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(१५-१६ प्रश्नाः) Satyaashada Srautasutra.pdf/२५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२८. सत्यापादविरचितं श्रौतसूत्रम्- [१५ प्रश्ने

य आहिताग्निः सन्नव्रत्यमिव चरेत् । य आहिताग्निः प्रवसेदित्येकेषाम् ॥८४ ॥

व्रतभ्रेषोऽनत्यचरणम् । 'प्रत्येऽहनि मासं वाऽश्नाति स्त्रियं वोपैति' ( आप० श्री. ९.-१-४) इति वचनान्न पूर्वाभ्यां संवध्यते । तेन सार्वकालिकयोरेव व्रतभ्रेषप्रवासयोर्भवति व्रातपती । व्रत्येऽहनीति सूत्रान्तरवचनं काकाक्षिवदुभयत्र संबध्यत इत्यपरम् । बौधायनश्चाऽऽह- 'य आहिताग्निः सन्नवत्यमिव चरेदित्याधानप्रभृत्येवेदमुक्तं भवतीति । अन्वाहितेष्वेवोपसमाहितेषु चेति शालीकिः' इति ॥ ८४ ॥

अग्नये व्रतभृतेऽष्टाकपालं य आहिताग्निरार्तिजमश्रु कुर्यात् । व्रातभृतीं प्रवास एके समामनन्ति । व्रातपतीमश्रुकर्मणि ॥ ८५ ॥

आतिजग्रहणं हर्षजाश्रुव्यावृत्त्यर्थम् । केचिद्रतभृद इति दकारश्चान्दसः प्रामादिको वा । प्रत्येऽहनीत्यनुषङ्गः । तथा च बढचा:-'तदाहुर्य आहिताग्निरुपवसथेऽश्चु कुर्वीत' इति ॥ ८५ ॥

त्वमग्ने व्रतभृच्छुचिर्देवाꣳ आसादया इह । अग्ने हव्याय वोढवे ॥ व्रता नु बिभ्रद्व्रतपा अदाभ्यो यजा नो देवाꣳ अजरः सुवीरः । दधद्रत्नानि सुविदानो अग्ने गोपाय नो जीवसे जातवेद इति याज्यानुवाक्ये ॥ (ख०४)॥८६॥

इति सत्याषाढहिरण्यकशिसूत्रे पञ्चदशप्रश्ने प्रथमः पटलः ॥

इदं याजुषं होत्रम् ॥ ८६ ॥ इति सत्याषाढहिरण्यकशिसूत्रव्याख्यायां महादेवशास्त्रिसंकलितायो प्रयोगचन्द्रिकायाँ पश्चदशप्रश्ने प्रथमः पटलः ॥

15.2 अथ पञ्चदशप्रश्ने द्वितीयः पटलः ।

यस्माद्भीषा निषीदसि ततो नो अभयं कृधि । प्रजाभ्यः सर्वाभ्यो मृड नमो रुद्राय मीढुष इत्यभिमन्त्रयेत ॥१॥

तामिति शेषः ॥ १॥