पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(१५-१६ प्रश्नाः) Satyaashada Srautasutra.pdf/२१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सत्याषाढविरचितं श्रौतसूत्रम्- [.१६-अ

अग्नये विपृचयेऽष्टाकपालं यदि गार्हपत्याहवनीयौ। गार्हपत्यदक्षिणाग्नी इत्येकेषाम् ॥ ६८॥

दक्षिणान्याहवनीयो वेत्यापस्तम्बः । पूर्ववदन्वयः ॥६८॥

अग्नये व्रतभृतेऽष्टाकपालं यद्यभ्यादाह्येन ॥ ६९ ॥

संसृज्येरनग्नयः, इत्यन्वयः । अभ्यादाह्यो गृहदाही ॥ १९॥

अग्नये शुचयेऽष्टाकपालं यदि शवाग्निना । अग्नये संकुसुकायाष्टाकपालं यदि सूतकाग्निना ॥ १५.१.७० ॥

संसृज्येरनग्नय इत्यन्वयः सर्वत्र । शवाग्निश्चिताग्निः । सूतकोग्निर्जातकर्मार्थः ॥७॥

संकुसुको विकुसुको विकिरो यश्च विष्किरः । माषाज्येन नलेध्मेन क्रव्यादँ शमयामसि । अस्मिन्वयं संकुसुकेऽग्नौ रिप्राणि सृज्महे । अभूम यज्ञियाः शुद्धाः प्र ण आयूꣳषि तारिषदिति याज्यानुवाक्ये ॥ ७१॥

इदं यानुषं हौत्रम् ॥ ७१ ॥

अग्नयेऽप्सुमतेऽष्टाकपालं यदि वैद्युतेन ॥ ७२ ॥

वैद्युतोऽशनिप्रभवः । संकुमकादन्यासामान्नाय एव याज्यानुवाक्याः ॥ ७२ ॥

सर्वे संनिपतेरनग्नये विविचये निरुप्याग्नये शुचये निर्वपति । व्रातभृतीं तृतीयामप्सुमतीं चतुर्थीं क्षामवतीमन्ततः परिक्रमयेत् ॥ (ख०३) ॥ ७३ ॥

यत्र तु गृहदाहादिनिमित्तसमुच्चयात्क्षामवत्यादयोऽप्सुमत्यन्ताः सर्वा इष्टयः संनिपतेयुस्तत्र निमित्तक्रमभेदे सत्यप्यनेनैव क्रमेणेष्टीनिपेत् । बातभृतीं चाधिका तृतीयाम् । तत्राप्सुमती चतुर्थी निरुप्य ततो विपृगादिभ्यः संकुसकान्तेभ्यः शुचिर्न निर्वपेत् । ततः क्षामवतीमाद्यां सतीमन्तं गमयेत् ॥ ७३ ॥

व्रातभृतीं द्वितीयामेके समामनन्ति । व्रातपतीमुत्तमाम् ॥ ७४ ॥

अथवा विविचये निरुप्य व्रतभृते निर्वपेत् । ततोऽनन्तरोक्तेनैव क्रमेण शुच्याक्भ्यिः क्षामवदन्तेभ्यः । ततोऽन्ते व्रातपतीमित्यर्थः । कतिपयनिमित्तसंनिपाते तु क्रमेणैवेष्टयो भवन्ति ॥ ७॥

गर्भꣳ स्रवन्तमगदमकरग्निरिन्द्रस्त्वष्टा बृहस्पतिः। पृथिव्यामवचुश्चोतैतन्नाभिप्राप्नोति निर्ऋतिं पराचैरित्यग्निहोत्रस्थालीꣳ स्रवन्तीमभिमन्त्रयेत ॥७५॥