पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(१५-१६ प्रश्नाः) Satyaashada Srautasutra.pdf/१७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

७२ : .... सत्याषाढविरचितं श्रौतसूत्रम्- [१५ प्रश्ने

यदि पूर्वस्यामाहुत्याꣳ हुतायामुत्तराहुतिः स्कन्देत् पूर्वां चोत्तरयाऽभिहुत्य (भिजुहुयात् ) यत्र वेत्थ वनस्पते देवानां गुह्या नामानि । तत्र हव्यानि गामयेति वानस्पत्ययर्चा समिधमाधाय तूष्णीमेव पुनर्जुहुयात् ॥ ४६॥

अमिहोम उपरिहोमः । तत एव शिष्टादेवोत्तराहुतिस्तूष्णीमुभयत्र । ततो होमावृत्तिः पूर्ववत् । यदा पुनरुत्तराहुत्येकदेशः स्कन्नो न साहुतिस्तदा तन्नाऽऽदियेत । यथा च पक्ष्यति यदनाहुतिमात्रं विगुडेव सेति मात्रापचारे तच्छेषेण समाप्नुयादिति च । पूर्वाहुत्या सहोत्तराहुतिपतनेऽप्ययमेव विधिस्तस्यापि फलतः स्कन्नत्वात्तत्तुल्यन्यायत्वाच्च

यदि पूर्वस्यामाहुत्याꣳ हुतायामाहवनीयोऽनुगच्छेदग्निर्दारौ दारावग्निरिति वदन्नन्तरे शकले हिरण्ये वा जुहुयात् ॥ ४७ ॥

यस्माद्दारोरुद्वायेदन्ततः सोऽनन्तरः शकलः । तस्मिस्तत्स्थे हिरण्ये वा जुहुयात् । उत्तराहुतिमित्यर्थः । मन्त्रलिङ्गानुरोधात् । तथोत्तमे शकले हिरण्यं निधायेत्येव भरद्वानः । वदन्निति वचनान्मन्त्रमध्ये होमः स्वाहाकारस्त्वन्तत एव भवति । ततः शेषसमाधिः । तत्र प्रतितपनमुपसमिन्धनं चाऽऽहवनीयस्यासंभवान्निवर्तते । प्रतितपननिवृत्तेरेवोद्देशनमपि निवृत्तं भवति । परिसमूहनादेस्त्वनिवृत्तिः शकलहिरण्ययोरग्निप्रतिनिधित्वेन विधानात् । यस्याप्यजस्त्र आहवनीयस्तस्यापि प्रतिनिधावेवाग्निहोत्रसमाप्तिरविशेषात् । ततो मन्थनम् ॥ ४७ ॥

यदि पुरा प्रयाजेभ्यो बहिष्परिध्याहवनीयात्प्राचीनमङ्गारो निवर्तेताध्वर्यवे च यजमानाय चाकꣳ स्यात् । यदि दक्षिणा ब्रह्मणे च यजमानाय चाकꣳ स्यात् । यदि प्रत्यग्घोत्रे च पत्नियै च यजमानाय चाकꣳ स्यात् । यद्युदङ्ग्नीधे च पशुभ्यश्च यजमानाय चाकꣳ स्यात् । मा तमो मा यज्ञरतमन्मा यजमानस्तन्नमस्ते अस्त्वायते नमो रुद्र पराय ते नमो यत्र निषीदस्यध्वर्युं मा मा हिꣳसीर्यजमानं मा हिꣳसीरिति तꣳ स्रुवस्य बुध्नेनाभिविदध्यात् ॥ यदि प्राचीनं निवर्तेतैवामि