पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(१५-१६ प्रश्नाः) Satyaashada Srautasutra.pdf/१३७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सत्यापाढविरचितं श्रौतसूत्रम्- [१६ प्रश्ने

तेषां ये पुरोडाशिनस्त उपवसन्ति । ये सांनायिनस्त एतदहर्वत्सानपाकुर्वन्ति । पशुश्च ॥ २१ ॥

तेषामध्वरकल्पानाम् ॥ २१॥

प्राजापत्यः पयाꣳसि च ॥ २२ ॥

प्राजापत्यं पशुमालभन्ते ( तै० सं० ७-५-७ ) इति श्रुतेः । उत्सर्गपक्षे पयासि ॥ २२ ॥

यथा वैश्यस्तथा तामस्येन्द्राय वसुमत इन्द्राय हरिवत इन्द्राय बृहस्पतिवते विश्वदेव्यावते पुरोडाशाः । अष्टावेकादश द्वादश कपाला आनुपूर्व्येण । सवनकाला व्याख्याताश्च ॥ २३ ॥

यथा वसुमानग्निः प्रातःसवनस्य तथा मरुत्वानिन्द्रो माध्यंदिनस्य सवनस्य स्वामी | वसुमतोऽग्नेस्तत्वामित्वं ब्राह्मणादवगन्तव्यम्-'प्रातःसवनं यदग्नये वसुमते पुरोडाशमष्टाकपालं निर्वपन्ति । ऐन्द्रं दधि । इन्द्रस्य वै मरुत्वतो माध्यंदिन सवनं .यदिन्द्राय मरुत्वते पुरोडाशमेकादशकपालं निर्वपन्ति । विश्वेषां वै देवानामृभुमतां तृतीयसवनं यद्वैश्वदेवं द्वादशकपालं निर्वपन्ति' (तै० सं० ७-५-७) इति ॥ २३ ॥

उत्सृष्टार इति ते वत्सानपाकुर्वन्ति ॥ २४ ॥

यदे दधि भवति (७-६-७ ) इति ब्राह्मणम् ॥ २४ ॥

प्रातः पशुमालभन्ते तस्य वपया प्रचरन्ति । ततो वैश्वदेवो द्वादशकपालः । वैश्वदेवश्चरुस्तृतीयसवनः संतिष्ठते । पृषदाज्येन चरिते पत्नीः संयाजयन्ति पत्नीः संयाजयन्ति ॥(ख०१९) ॥२५ ॥

इति सत्याषाढहिरण्यकेशिसूत्रे षोडशप्रश्नेऽष्टमः पटलः ।

इति सत्याषाढहिरण्यकेशिसूत्रे षोडशप्रश्नः ॥

अथेय पद्धतिः-सर्व गवामयनवदीपवसथ्यान्तं कृत्वा प्रायणीयातिरात्रप्रभृति प्रथममासान्तं कुर्वन्ति । पृष्ठ्यपडहमित्यर्थः । पत्नीसंयाजान्ते मध्वशनादिकं कृत्वोत्तरस्याग्नेर्वसतीवरीर्गृहीत्वा, ऐन्द्रस्य दध्नः शाखाहरणादि कुम्भ्यालेपनान्तं, रात्री वसती वरीः परिहृत्य तासु मृत्पिण्डमवधाय परिस्तरणादि, विष्णो हव्यमित्युक्तमन्द्रस्य दन्नःकृत्वा तण्डुलेरातञ्चनम् । न पञ्चदोहादयः । एवं कृत्वोपवसति । श्वोभूते वाहनक्रमेणाऽऽगच्छति । गवामयानक तस्यां ( तस्मिन् ) वा त्यागः । अभिप्लवानां प्रथमभूतस्याह्नो ज्योतिषस्त्यागः । तस्याहः प्रतिनिधिः प्राजापत्यः पशुः ।