पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(१५-१६ प्रश्नाः) Satyaashada Srautasutra.pdf/१२७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३०२ . सत्याषाढविरचितं श्रौतसूत्रम्- [१६ प्रश्ने

कानिपुनस्तानि... :

निकल्पन्ते सर्वशिल्पानि ॥ १४ ॥

अत्राप्यापस्तम्बे विशेषः-निकल्पन्ते पत्नयोऽपाघाटलिकास्तालुकवीणाः पिच्छोलाः, इति । निकल्पन्ते बीणावादाः शङ्खा नालीस्तृणवानिति । निकल्पेते ब्रह्मचारी पुंश्चली चाण. सदसो दक्षिणं द्वार्बाहुमातिष्यमाणौ ( आप० श्री० ११-१७-१६ । १८), इति । वाद्यानि च सह वादकैः ॥ १४ ॥

तꣳ संनयति वाक्सत्यं मनो भद्रं तन्नो भद्रमा नो भद्रमिति त्रिपर्वयोत्कटशलाकया वेणुपर्वणा वेतसशाखया वा वादयित्वा बाणेन शततन्तुना माहेन्द्रस्य स्तोत्रमुपाकरोति ॥ १५॥

तं दण्डमिति गम्यते । संनयति सज्जयति । गतमन्यत् ।। १५ ॥

बर्हिषो विकारः ॥ १६ ॥

स च दण्डो बर्हिषः प्रतिनिधिरित्यर्थः । अथवा---इक्षकाण्डेन वेणुकाण्डेन वेतसकाण्डेन बाणं शततन्तुं ( वाणेन शततन्तुना ) सह्याद्याने ब(हाध्वर्युव)हिन्यां च माहे. न्द्रस्य स्तोत्रोपाकरणं करोति ॥ १६ ॥ .

तमुद्गाता वादयित्वा प्रस्तोत्रे प्रयच्छति ॥ १७॥

तमुद्गाता पुनः प्रस्तोत्रे ददाति ॥ १७ ॥

प्रस्तोताऽध्वर्यवे ॥ १८ ॥

प्रयच्छतीत्यनुवर्तते ॥ १८ ॥

तमध्वर्युरन्यस्मै ॥१९॥

वीणावादाय ॥ १९॥

तꣳ सोऽग्रेण सदसो दक्षिणे द्वार्बाहौ प्रतिवादयन्नास्ते ॥ १६.६.२० ॥

तं शततन्तु मन्त्रेण सदसः पुरस्ताद्दक्षिणस्यां द्वारस्थूणायां प्रतिवादयस्तिष्ठति ॥ २०॥

उपगायन्ति पत्न्योऽपाघाटलिकास्तालुकवीणाः काण्डवीणाः पिच्छोला अलाबुकपिशीर्ष्ण्य इति ॥ २१ ॥

ननु महावते श्रूयते-- पत्नय उपगायन्ति ' इति । प्रकृतौ श्रूयते - ऋत्विज उपगायन्ति ' इति । तदेतदृत्विगुपगानं पत्न्युपगानेन निवर्त्यते । ननु-प्रकृतावुद्गात्रा साम्नि गीयमाने सत्यत्विजोऽन्ये सामैवोपगायन्ति । इह तुः पत्नयो वादित्रं वादयन्तीति