पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(१५-१६ प्रश्नाः) Satyaashada Srautasutra.pdf/१२६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१. पटलः ] . महादेवशास्त्रिसंकलितप्रयोगचन्द्रिकाव्याख्यासमेतम् । ३८१


ऊर्ध्वं द्वादशाहीयात् । दशरात्रान्महाव्रतमुपयन्ति ॥ (ख०१३)॥३॥

गतः ॥ ३॥

श्वोभूते प्रतायते पञ्चविꣳशोऽग्निष्टोमो महाव्रतसामा ॥४॥

प्रतायत आरभत उद्गातेत्यर्थः । सौर्यानासाद्य विरमति सारस्वत इत्यादिपशुकाले प्राजापत्यमृषभं तूपरमालभते । प्रजापतये त्वा जुष्टमुपाकरोमीत्यादि । अस्य महाव्रतस्य प्रचारतं मरुत्वतीयैः सह भवति ॥ ४ ॥

यत्प्राङ्माहेन्द्रात् ॥ ५॥

भवतीत्यर्थः । अग्रतो भवति ॥ ६ ॥

तस्मिन्कृते प्रतिप्रस्थाता महाव्रतशिल्पानि व्यायातयति ॥ ६॥

माहेन्द्रस्तोत्रे कृते प्रतिप्रस्थाता माहावतिकानि शिल्पानि उपकरणानि ॥ ६ ॥

दश वीणादण्डस्यातिमथितानि भवन्ति ॥ ७ ॥

उदुम्बरेण कृतस्य वीणादण्डस्यातिमथितानि भवन्ति ॥ ७ ॥

एकैकस्मिन्नतिमथिते दश दश तन्तून्प्रवयति ॥ ८॥

यदियं दण्ड इत्यादिस्थितेषु दशस्वप्यतिमाथितेषु तेषु प्रत्येकं दश दश तन्तवः प्रोताः शततन्तुः ॥ ८॥

स वाणः शततन्तुर्भवति ॥ ९॥

वाणो वीणाविशेषः ॥ ९॥

अध्यधिहोतृषदनं प्लेङ्खꣳ होत्रे प्रबध्नन्ति ॥१६.६.१०॥

प्लेखं दोलां होताऽऽरोहतीत्येव ।। १० ।।

औदुम्बरीमासन्दीमुद्गात्र उपनिदधाति ॥ ११ ॥

आसन्दीमारोहत्युद्गाता ॥ ११ ॥

कूर्चफलके अध्वर्यवे ।। १२ ॥

उपनिदधात्यनुवर्तते ॥ १२॥

होत्रका उपगातारश्च कूर्चेष्वासते ॥ १३ ॥

कूर्चेषु होत्रका उपगातार: पत्नय इत्यासते ( आप० श्रौ०. २१-१७-१५ ) इति । प्रतिगरार्थ होत्रकाणामुपगातृणां पत्नीनां च कूर्चानि कल्पयितव्यानि तेष्वासीना भवेयुरित्यर्थः । प्रतिप्रस्थाता (त्रा ) एतानि कल्पयितव्यानि ॥ १३ ॥...........: