पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(१५-१६ प्रश्नाः) Satyaashada Srautasutra.pdf/१२०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

. ५. पटलः ] महादेवशास्त्रिसंकलितमयोगचन्द्रिकाच्याख्यासमेतम् । . ३७५ पक्षः । 'चित्रापूर्णमासे दीक्षरन्मुखं वा एतत्संवत्सरस्य यच्चित्रापूर्णमासः, (७-४-९) इति प्रशस्यमानतया चैत्री पौर्णमासीति द्वितीयः पक्षः। याज्ञिकसमाख्यया माघकृप्णाष्टम्येकाष्टका। तत्र सोमक्रयसंपत्तये माध्याः पौर्णमास्याः पूर्वस्यामेकादश्यांदीक्षाऽऽरब्धव्या ॥ चतुर्विंशतिपरमा इष्टप्रथमयज्ञा एकाष्टकायां प्रातरग्निहोत्र हुत्वा विज्ञानमुपयन्ति, ( अहां विधान्यामेकाष्टकायाम् (तै० सं० ३-३-८) इत्यादीनामहां विधान्यामेकाटकायां सा संवत्सरसत्रस्याहनां विधात्री तस्यां दीक्षा । एकाष्टकायां प्रातःकाले चतुःशरावपरिमितेन पिष्टेन निर्मितमपुपं पक्त्वाऽपूपमादायोल्मुकं चाऽऽदाय कक्षेऽपूपं निधायोल्मुकेन कक्षं दहेत् । यदि दहति पुण्यसमं भवति निरुपद्भवः संवत्सरं भवति । यदि न दहति पापसममक्षादिभिः पीडाकरो भवति । एवं विज्ञानमुपयन्ति । ) एवं विज्ञानं कृत्वा गवामयनस्याऽऽरम्भः । साग्निचित्यो गवामयनो नाचिकेतयुक्तो वा यत्र वा भूयिष्ठा आहुतयो हूयेरन्, इति । अस्मिन् गवामयने न भूयिष्ठा ग्रहा गृह्यन्त इति वचनात् । नाचिकेतपक्षेऽपि तस्यामेव दीक्षा । एकाष्टकायां दीक्षरन्नित्यापस्तम्बोऽप्याह । अस्यामेकाष्टकायां विज्ञानं कृत्वा गवामयनेन साग्निपित्येन यक्ष्यामहे स्वर्गार्थमिति संकल्पः । प्राजापत्यादयो वा फलं सर्वकामार्थो वाऽऽश्वलायनमतात् । 'अथ गवामयनं सर्वकाम इति । सर्व सत्रभूतद्वादशाहवत् । अस्मिन् (पक्षे) उखासभरणं पर्वणि पशुबन्धो (वायव्यः) पञ्च पशवो वा ।। १६ ॥

माघ्याश्चैत्र्या वा ॥ १७ ॥

चैत्र्याः पौर्णास्याः पूर्वस्यामेकादश्यामग्निवद्दीक्षणीया। एवं द्वादश दीक्षाः ॥१७॥

आगामिन्यामष्टम्यां प्रायणीया तत्राऽऽह

प्रायणीयोऽतिरात्रश्चतुर्विꣳश उक्थ्य आरम्भणीयस्त्रिवृद्वा ते शये द्वे अहनी भवतः । ज्योतिरग्निष्टोमो रथंतरसामा गौरुक्थ्यो बृहत्सामा आयुरुक्थ्यो रथंतरसामा गौरुक्थ्यो बृहत्सामाऽऽयुरुक्थ्यो रथंतरसामा ज्योतिरग्निष्टोमो बृहत्सामेति ॥ १८॥

अष्टम्यां प्रायणीयया प्रचर्य सोमक्रयादि । चैत्रपक्षमाश्रित्य प्रयोग:- आगामिन्यां चतुर्थ्यामग्नीषोमीयः । तस्मिन्नेकादश यूपान्मिन्वन्ति रात्री परिस्तरणान्तं श्वोभते महारात्रे बुद्ध्वाऽग्ने नयेत्यादि द्वादशाहवत् । प्रायणीयमतिरात्रमुपयन्ति । अत्रापि पृश्निप्राणग्रहादयो नामधेयात्केचिन्नेच्छन्ति । ऐन्द्रवायवाग्रः । पशुकाल ऐकादशिनानां विकृतीनामेक आग्नेयो वा।