पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(१५-१६ प्रश्नाः) Satyaashada Srautasutra.pdf/११४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

- ४ पटलः ] महादेवशास्त्रिसंकलितप्रयोगचन्द्रिकाव्याख्यासमेतम् । ३६९

प्रसृप्तेष्वनया त्वा पात्रेणेति पृथिवीं मनसा ध्यायन् प्रजापतये मनवे जुष्टं गृह्णामीति प्राजापत्यं मनोग्रहं गृह्णाति । यथारूपमाकाशात् । तार्तीयसवनि(नी)काद्वा सोमात्परिशाय(श्रप)येद्यावानेकस्मै चमसगणायाऽऽप्तः ॥ १५ ॥

प्रसृप्तेषूपांशु पात्रेण गृह्णाति, इति विधिः । अनया त्वा प्रजापतये जुष्टं गृह्णामीति । आकाशाद्यथारूपं ध्यात्वा गृह्णाति । आकाशैकदेशमथवाऽग्निष्टोमचमसोन्नयनकाल एकस्मै चमसगणाय गृह्णाति । आप्तो यावान्परिमितः ।। १५ ।।

तस्माद्वोपाꣳशुपात्रेण गृह्णीयाद्धोतृचमसमुख्याꣳश्चमसानुन्नयति ॥ १६ ॥ स्तुतशस्त्रे भवतः॥१७॥

गतः ।। १६ ॥ १७॥

तस्य सर्वं मनसा क्रियते ॥ १८ ॥ मनसा स्तोत्रमुपाकरोति ॥ १९ ॥ मनसा प्रस्तौति ॥१६.४.२०॥ मनसोद्गायति ॥ २१ ॥ मनसा प्रतिहरति ॥२२॥ मनसा तिसृणाꣳ सार्पराज्ञीनाꣳ षट्कृत्वः प्रतिगृह्णाति ॥ २३ ॥


तस्माद्ग्रहणं वा स्तोत्रोपाकरणं प्रस्तोता उद्गाता प्रतिहर्ता च मनसा सार्पराज्ञीनाम् ॥ १८ ॥ १९ ॥ २० ॥ २१ ॥ २२ ॥ २३ ॥

यद्यर्धर्चशः शꣳसति नवकृत्वो यदि पच्छ ओꣳ होतरिति दशहोतुः प्रतिगरः । तथेति चतुर्होतुः । ओमिति पञ्चहोतुः । तथेति षड्ढोतुः । अरात्स्म होतरिति सप्तहोतुः ॥ २४ ॥

एवं मनसा प्रतिगरः । शंसनमनुमन्त्रणं च मनसेति बौधायनादयः ॥ २४ ॥

मनसाऽऽश्रुतप्रत्याश्रुते याज्या संप्रैषो वषट्कारो भक्षमन्त्रश्च ॥२५॥

मनसाऽऽश्रुतप्रत्याश्रुते । उक्थशा यज सोमानां सोमपक्ष उक्थशा यज सोममिति । आकाशपक्षे मनसैव । याज्यान्ते चिह्नं वषट्कारानुवषट्कारौ । सोममाकाशं वा हरति । भक्षार्थं वक्ष्यति स्वयं सूत्रकारः ।। २५ ॥

हुत्वा हरन्ति भक्षन्ते यत्समीक्षन्ते ससमुपहवधर्मा भवन्ति । गृहपतिं पर्युपविश्य पृच्छन्ति ॥ (ख० ९)॥ २६ ॥