पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(१५-१६ प्रश्नाः) Satyaashada Srautasutra.pdf/१०८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३ पटलः ] महादेवशास्त्रिसंकलितमयोगचन्द्रिकाव्याख्यासमेतम् । ३६३

तदाऽपि विभर्षि च पूर्ववत् । यज्ञायज्ञीये स्तूयमाने वसतीवरीः पारगृह्णाति । प्रतिदिनपक्षे न विषाणप्रासनं पत्नीसंयाजान्तं समिदाधानान्तं पूर्ववत् ॥ १३ ॥

पञ्चदश उक्थ्यो बृहत्सामा ॥ १४ ॥

श्वः सुत्यामित्यादि । रात्रौ वसतीवरीपरिहरणादि परिस्तरणान्तं तन्त्रम् । श्वोभूते महाराने बुद्ध्वा पञ्चदश उक्थ्यो वृहत्साम, सोमपात्रासादनकाल ऐन्द्रातिग्राह्यपात्रमेव वाजसनेयिमतपक्षे पूर्ववत् । सोमोपाहरणम् , अग्निं युनज्मि, प्रतिदिनपक्षे शुक्राममेक एवातिग्राह्य ऐन्द्र एव । पशुकाले सौन्यो व्यत्यासेन दक्षिणे यूपेऽग्निष्ठस्य सोपशयनिदेशः ॥ १४ ॥

दुन्दुभिशब्देन माहेन्द्रस्य स्तोत्रमुपाकरोति ॥ १५ ॥

माहेन्द्रस्तोत्रोपाकरणकाले दुन्दुभिशब्देन मुरजः प्रसिद्धस्तस्य घोषेण स्तोत्रोपाकरणमित्यर्थः ॥ १५॥

यदि स्तनयित्नुर्भवति स एव स्यादुपाकरणमन्त्रस्य शब्दो विकारः ॥ १६ ॥

स्तनयित्नुघोषेण वा पूर्ववत् । दक्षिणाकाले यज्ञायज्ञीये वसतीवर्यादि पत्नीसंयाजान्तं समिदाधानं च पूर्ववत् । अहीनसंततयो रात्री पारस्तरणान्तम् ॥ १६ ॥

सप्तदश उक्थ्यो वैरूपसामा ॥ १७ ॥

श्वोभूते महारा। बुद्ध्वा सप्तदश उक्थ्यो वैरूपसामा । पात्रासादनकाले सौर्यातिग्राह्यपात्रमेकमेव । ऋतुकरणमुक्थ्यवत् । आग्रयणाप्रमाग्रयणाने सौर्योऽतिग्राह्यः । पशुकाले त्रिवृया परिवीय पोष्णं श्याममग्निस्ष्ठस्योत्तरे यूप उपशयनिर्देशः ।। १७ ।।

आधावेन माहेन्द्रस्तोत्रमुपाकरोति ।। १८ ॥

तस्मिन्काल आधावनम् ॥ १८ ॥

बर्हिषो विकारस्तस्मिन्नुपाकृते प्रस्तुत उद्गाताऽऽधावेन धुनुते ॥ १९ ॥

माहेन्द्रस्तोत्रोपाकरणकाल आधावेन बहिःस्थानेन धुनुते स्तोत्रोपाकरणम् । प्रस्तुते उद्गाताऽऽधावेन धुनुते । पूर्ववक्षिणाकाले ददाति । यज्ञायज्ञीयकाले वसतीवर्यादिसमिदाधानान्तं पूर्ववदहीनसंततयः परिस्तरणान्तम् ॥ १९ ॥

एकविꣳशः षोडशी वैराजसामा ॥ १६.३.२० ॥

महाराने बुद्ध्वा श्वोभूत एकविंशं षोडशिनं वैराजसामानमुपयन्तीति शेषः । अथवोक्थ्यवन्न षोडशीये ( याs) न्तरेष्टा । स उक्थ्य इति वचनात् । अत्र यदि षोडशी त्रीनतिग्राह्यानेव पूर्वस्मिरूयहपक्ष उत्तरमिरूयहपक्षे, अद्यप्रभृत्याग्नेयमतिग्राह्यं गृह्णाति ।