पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(१५-१६ प्रश्नाः) Satyaashada Srautasutra.pdf/१०६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३ पटले:] महादेवशास्त्रिसंकलितप्रयोगचन्द्रिकाव्याख्यासमेतम् । ३६१

सत्रे त्वयं विशेषः ॥ १९ ॥

एवमहरहः क्रियते ॥ १६.२.२०॥

एवमुक्तप्रकारेण ॥२०॥

उत्तरेऽहनि कृष्णविषाणाः प्रास्यन्ति ॥ २१ ॥

गतः ॥ २१ ॥

सख्यानि विसृजन्ते ॥ २२ ॥

उत्तम एवाहनि सख्यानि विसृजन्ते ॥ २२ ॥

पूर्वस्मिन्नहन्युत्तरस्मा अह्ने यज्ञायज्ञीयं प्रति वसतीवरीर्गृह्णाति ॥ २३ ॥

यज्ञायझीयकाले वर्तमाने वसतीवरीः ॥ २३ ॥

पूर्वस्मिन्नहन्युत्तरस्मा अह्ने स्तोत्रीयमनुरूपं कृत्वा शꣳसति ॥ (ख०५) ॥ २४ ॥

इति सत्याषाढहिरण्यकेशिसूत्रे षोडशप्रश्ने द्वितीयः पटलः ।

अनुरूपं सदृशम् । ' नावाहीनसंततयः' इति वचनाम्न्यायप्राप्तमेतत् ॥ २४ ॥ इति सत्याषाढहिरण्यकेशिसूत्रव्याख्यायां महादेवशास्त्रिसंकलितायां प्रयोगचं न्द्रिकायां षोडशप्रश्ने द्वितीयः पटलः ।

16.3 अथ षोडशप्रश्ने तृतीयः पटलः ।

वर्तमानेऽतिरात्रे पयाꣳसि विशास्ति ॥ १॥

वर्तमान एवातिरात्र उत्तरस्मा अढे पयासि विशास्तीत्यापस्तम्बः । वर्तमान एवातिरात्रे पोडशिचमसेषु प्रक्षालितेषुत्तरस्मा अहने या यजमानस्य व्रतधुगित्यादिभिः पयांसि विशास्ति । दोहनादयो गताः ॥ १ ॥

श्वः सुत्यामिन्द्राग्निभ्यां विश्वेभ्यो देवेभ्यो ब्राह्मणेभ्यः सोमपेभ्यः सोमं प्रब्रूतादिति मैत्रावरुणेनोच्यमाने स्वमगारं प्रविश्याऽऽग्नीध्रः श्वः सुत्यामिन्द्राग्निभ्यां विश्वेभ्यो देवेभ्यो ब्राह्मणेभ्यः सोमपेभ्यः सोमं प्रब्रवीमि ब्रह्मन्वाचं यच्छ सुब्रह्मण्य सुब्रह्मण्यामाह्वयेति संप्रेष्यति ॥ २ ॥

अहरहोगविमोक्षपक्षे हारियोजने हुते श्वः सुत्यामिति । तदाऽऽग्नीध्र आग्नीध्रमण्डपं प्रविश्य संप्रेष्यति । श्वः सुत्यामिति ॥ २ ॥