पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(१५-१६ प्रश्नाः) Satyaashada Srautasutra.pdf/१०४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२ पटलः ] : महादेवशास्त्रिसंकलितमयोगचन्द्रिकाव्याख्यासमेतम् । ३५९ कामयेत बहु स्यां प्रजायेयेति कामाय न्यूढो विधीयते । तथा च सति समूढवत् ऋत्वर्थे विध्यभावाद्यंतरबृहपृष्ठवैषम्येण विकल्पितप्रकृतित्वं नास्ति । ततः समूढस्य द्वादशाहस्य विकृतिः । अहर्मणेष्वनयोरन्यतरस्यातिदेशः पूर्वपक्षिणः प्रयोजनम् । समूढस्यै वातिदेश इति सिद्धान्तः (१-५-२४) ॥. १३. ॥

तत्र भक्षमन्त्राः पवमानाभिमन्त्रणानि च येन येन च्छन्दसा निगदाश्च तस्य स्थाने ताभिः संनमेत व्यूहेन व्याख्यातम् ॥ १४ ॥

ननु--व्यूढे द्वादशाहे भक्षमन्त्रमानं तदुभयमन्त्रपरिधिकपालानि चोदकप्राप्तानि । तब भक्षमन्त्रेषु सवनत्रयगतेषु गायत्रीछन्दसस्त्रिष्टुप्छन्दसो जगतीछन्दत इति पदत्रय श्रूयते । तथा परिधिस्तावकेऽर्थवाद.. पठ्यते-गायत्रो मध्यमः परिधिस्नेष्टुभो दक्षिणो जागत उत्तर इति । तथा कपालविषयं वाक्यं पठ्यते-अष्टाकपालः प्रातःसवनीय एकादशकपालो. माध्यंदिनीयो द्वादशकपालस्तातीयसवनिक इति । अत्रा यत्वादिभिस्त्रिभिः संख्याभिर्गायत्र्यादिच्छन्दांसि तत्तत्पादाक्षरस्मृतिद्वारेणोपस्थाप्यन्ते । एवं स्थिते सति व्यूढप्रकरणे छन्दोव्यतिकमः पठ्यते-'छन्दास वा अन्योन्यस्य लोकमभ्यूध्यायन्— गायत्री त्रिष्टुभस्त्रिष्टुब्जगत्या जगती गायच्याः, इति । तत्र 'संशयः । सोऽयं छन्दोव्यतिक्रमो भक्षपवमानपरिधिकपालरूपाणामर्थानामुभयावधमन्त्रगतच्छन्दोवाचिशब्दानां च कर्तव्यः किं वा तेषां शब्दानामेवेति । तत्र मन्धंगतानामेवेति विशेपानवणात्सर्वत्र व्यतिक्रम इत्याद्यः पक्षः । तेन - गायत्रीशब्दनिर्दिष्टः प्रात:सवनीयो भक्षस्त्रिष्टुप्शब्दितस्य माध्यंदिनीयस्य भक्षस्य स्थाने । स च तृतीयसवनीयस्य स्थाने, सोऽपि प्रातःसवनीयस्य स्थाने | तथा बहिष्पमानो माध्यंदिनपवमाने माध्यंदिनपवमानस्तृतीयसवने । आर्भवपवमानः प्रातः सवने । तथा मध्यमः स्थविष्ठः परिधिर्दक्षिणतः । अणीयान् द्राधीयानुत्तरतः, अणिष्ठो हसिष्ठो मध्यतः । तथाऽष्टाकपालो माध्यदिने सवने । एकादशकपालस्तुतीयसवने । द्वादशकपालः प्रातःसवने । सोऽयमर्थव्यतिक्रमः । मन्त्रद्वयशब्देष्वप्येवं योजनीयमिति प्राप्ते ब्रूमः छन्दांसीति वाक्येऽर्थानां व्यतिक्रमो नोक्तः । अतो मन्त्रगतगायच्यादिशब्दानामवे व्यतिक्रमः । यस्त्वर्थेषु गायन्यादिशब्दप्रयोगः स प्रशंसार्थः । भक्षाद्यांना मुख्यच्छदस्त्वाभावादिति सिद्धान्तः (१०-९-२५) ॥ १४ ॥

एवमुत्तरेषु पृष्ठ्याहेषु त्रीनतिग्राह्यान्गृह्णाति । आग्नेयमेकविꣳशे । ऐन्द्रं त्रिणवे । सौर्यं त्रयस्त्रिꣳशे ॥१५॥