पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(११-१४ प्रश्नाः) Satyaashada Srautasutra.pdf/९९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

- सत्यापाढविरचितं श्रौतसूत्रम्- - .. [ ११ प्रश्न एकैकस्यां दिश्युपधेयावामिष्टकानां संख्यां विधत्ते --. दश दशोपदधाति । (५-२-१०) इति । एकैकं मन्त्रं दशकृत्व आव] दशेष्टका उपदध्यात् । अत्रोपयाने वक्रत्वं विधत्ते-- 'अक्ष्णयोपदधाति । (५-२-१० ) इत्यादि । प्रतांच्यामुपक्रम्य प्राध्यामबमाने सत्यार्जवं भवति । नैर्ऋत्यामुपक्रम्यशान्यां समापनं. वक्रत्वम् । एवमितापि । तदिदमक्ष्णयेत्यनेनोच्यते । कनु- प्राणभृत उपदधाति '(१-४-१८ ) इत्यत्रापि पूर्ववदेव मन्त्रीपादान, मर्थवादार्थ विध्यर्थं वेति विवेक्तव्यम् । निमित्तान्तरकथनार्थं तु सूत्रान्तरम् । तत्र हि भूनाशल्दप्रयोगः । इह तु लिङ्गवतामरूपत्वात्तत्समवायमात्रेण शब्दप्रवृत्तिः । प्राण: भृद्गणे हि प्राणभृत्समवायोऽस्ति । प्राणभृदप्राणभृद्णेऽपि. प्राणभृत्समवायोऽस्तीत्यनेन्द सादृश्येन शशभृच्छन्दः । तदेवम् –'वसिद्धिजातिसारूप्यप्रंशसालिङ्गभूमिभिः । षड्मिः सर्वत्र शब्दानां गौणी वृत्तिः प्रकल्पिता ॥ ५ ॥

प्राची दिशां वसन्त ऋतूनामिति पञ्चाशतमपानभृतो यथा प्राणभृतोऽन्तरामन्तरामुपधाय बाह्यां बाह्यामुपधाति ॥ ६ ॥

अपानभृतः प्राचीदिशामित्युपदधाति, यथा प्राणभूतः । प्रतिदिशमक्ष्णया च बाह्या मुपया या स्तरोपधीयते । यदा-अन्तर्देशे प्राणभृदाख्याः पूर्वोक्ता इष्टका उपधाय बहिर्देश संयदाख्या इमा अपानभृत इष्टका उपदध्यात् ॥ ६ ॥ प्राणभृद्भच्चो विपरीतप्रकारं विधत्ते-

विषूची प्राणभृतं चापानभृतं चोपदधाति ॥ ७ ॥

यस्मात्प्राणभृतामपानभूतां चान्योन्यविपर्ययक्रमः, तस्माल्लोकेऽपि प्राणापामावन्योन्य विपरीतस्वरूपौ । बहिर्गतिः प्राणोऽन्तर्गतिरपानः ॥ ७ ॥

आयुषः प्राणꣳ संतन्वित्येतेनानुवाकेन संयत उपदधाति ॥(ख०२३)॥८॥

आयुषः प्राणमिति द्वादश संततीरित्यापस्तम्बः, अनियतदेशाः ॥ ८॥

पृथिव्यसि जन्मना वशा साऽग्निं गर्भमधत्ताः(त्थाः) सा मया संभव । द्यौरसि जन्मना वशा साऽऽदित्यं गर्भमधत्ताः(त्थाः) सा मया संभव । नक्षत्राण्यसि जन्मना वशा सा चन्द्रमसं गर्भमधत्ताः(त्थाः) सा मया संभव । आपोऽसि जन्मना वशा सा वरुणं गर्भमधत्ताः(त्थाः) सा मया संभव । औषधोऽसि जन्मना वशा सा सोमꣳ राजानं गर्भम