पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(११-१४ प्रश्नाः) Satyaashada Srautasutra.pdf/९८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

८ पटलः ] महादेवशास्त्रिसंकलितपयोगचन्द्रिकाव्याख्यासमेतम् । ६६ '

संधये त्वा संधिभ्यस्त्वा संधिषु सीद । सꣳश्लिडसि सꣳश्लिषे त्वा सꣳश्लिड्भ्यस्त्वा सꣳश्लिट्त्सु सीद । संपदसि संपदे त्वा संपद्भ्यस्त्वा संपत्सु सीदेत्येताभ्यामनुवाकाभ्यामृषीष्टका उपदधाति ॥ ४ ॥

मृदिष्टका यथावकाशम् -अन्यः संभूत इति च । ऋतसदसीति सप्त, सनिरसीति पञ्च, गूर्द इति षष्टः । क्षत्रं पाहीति षट् । विश्वेषु त्वा पार्थिवेषु सादयामीति दिवि सीदेत्येवमन्ता दश । स्वर्षि:सीत्येवमाद्याः प्रभाडसीत्येवमन्ता एकादश । सपत्नहनमित्याचा वजाः सप्त । उदसीत्येकादश । इपि सीदेति दश । संवत्सरे सीदेति षट् संवसराः । एकस्या५ सीदेति च र्दश । पिन्वमानाऽसीति षट् संपदन्ताः । ये तु सादनं न प्रवदन्ति ते अनुवाकाः शाखान्तरे । ये तु सादनं प्रवदन्ति तेषामनुवाकपरिमाण नोक्तम् । सर्वा एता ऋषीष्टका इत्युच्यन्ते । केचित्त्वाहु:-अनुवाका एव ऋषीष्टका इति । प्रथमचित्र स्त्वेिते तस्य मन्त्राणां मध्य आम्नानात् । प्रथमस्य त्वग्ने ऋषीष्टका उपधाय लोकंपृणाः । त एव प्राणभृतो गणप्रभृतय इति । न च गणभेदो युक्तः, बौधायनमतान्मन्त्रलिङ्गाच्च यदेकधोपदध्यात् । इति । केचित्तु द्विपस्तारे प्रथमेऽप्यग्नौ प्राणभूदादीनामुपधानं कृत्वा, ऋषभस्य च पुरी(पान्तीपोपधानं कुर्वन्ति । पुरीपान्ता चितिरिति वचनात् । पश्चाच्च द्वितीयां चितिम् । तस्मिन्नेव प्रस्तारे पुरीषान्तां कुर्या: दिति । एवं तु सूत्रकाराभिप्रायः । द्विस हा द्विपस्ताराश्चितयो भवन्तीति न साहले। केचित्तु ऋषीष्टकाः परित्यज्याधिकविधिरनित्य इति । अयं पुरो भुव इत्येव कुन्ति प्रथमे प्यग्नौ । तथाऽपि गणमेदो जायत एवातो द्वितीये तृतीये वाऽग्नौ प्राणभूदानामुपयोगः । प्रथमायां चित्यामेव सूत्रकारेणाऽऽन्नानात् ॥ ४॥

अयं पुरो भुव इति पञ्चाशतं प्राणभृतः । दश दश प्रतिदिशमक्ष्णया दश । मध्ये बाह्यां बाह्यामुपधायान्तरामन्तरामुपदधाति ॥ ५ ॥

प्राणभृतः, अयं पुरो भुव इति पञ्चाशतमुपदधाति । दश दश तु प्रतिदिशमक्ष्णया वक्रमुपदधाति । दश मध्ये ता अक्ष्णया, अग्नेरभ्यन्तरमुपधाय बाह्याः पश्चादुपदधाति । यद्वा-एतैर्मन्त्रैः साध्यमुपधानमाह-प्राणभृतमुपदधाति (ले० सं० ५२-१०) इत्यादि सामान्येन विहितं पुनर्विशेषाकारेण विधत्ते-अयं पुरो भुव इति पुरस्तादुपदधाति प्राणमेवैताभिर्दाधाराय दक्षिणा विश्वकर्मेति दक्षिणतो मन एवैताभिर्दाधाराय पश्चाद्विश्वव्यचा इति पश्चाच्चक्षुरेवैताभिर्दाधारेदमुत्तरात्सुवरित्युत्तरतः श्रोत्रमेवैताभिदर्दीधारेयमुपरि मतिरित्युपरिष्टाद्वाचमेवैताभिदार्धार (तै० सं० ५-९-१०) इति ।