पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(११-१४ प्रश्नाः) Satyaashada Srautasutra.pdf/१००

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

७१ ८ पटलः महादेवशास्त्रिसंकलितप्रयोगचन्द्रिकाव्याख्यासमेतम् ।

धत्ताः(त्थाः)सा मया संभव । वयोविनिरसि जन्मना वशा(साजरां) सा मह्यं गर्भमधत्ताः(त्थाः) सा मया संभव । विराडसि जन्मना वशा सा राजानं गर्भमधत्ताः(त्थाः)सा मया संभवेत्येते नानुवाकेन वशेष्टका उपदधाति ॥ ९ ॥

पृथिव्यसीत्यारभ्य सप्त वशाः । पञ्च वशा इत्यापस्तम्बः ॥९॥ .

या देव्यसीष्टक आयुर्दा उपशीवरी । सा मामुपवेशेषु जायेव पतिमित्सदा ॥ या देव्यसीष्टके प्राणदा अपानदा व्यानदाश्चक्षुर्दाः श्रोत्रदाः पृथिविदा अन्तरिक्षदा द्यौर्दाः सुव(स्व)र्दाः कुमारीदाः प्रफर्वीदा युवतिदा उपशीवरी । सा मामुपवेशेषु जायेव पतिमित्सदेत्येतेनानुवाकेनोपशीवरीरुपदधाति ॥ ११.८.१० ॥

स्पष्टोऽर्थः ॥ १० ॥

अर्थेतः स्थाध्वगतोऽग्नेर्वस्तेजिष्ठेन तेजसा देवताभिर्गृह्णामि । शुक्राः स्थ वीर्यावतीरिन्द्रस्य व इन्द्रियावतो देवताभिर्गृह्णामि । अधिपत्नीः स्थ तेज स्विनीरादित्यानां वो देवानां देवताभिर्गृह्णामि । मन्द्राः स्थाभिभुवो विश्वेषां देवानां देवताभिर्गृ ह्णामि । क्षत्रभृतः स्थौजस्विनीर्मित्रावरुणयोर्ब्रह्मणा देवताभिर्गृह्णामि । व्रजक्षितः स्थ ऊर्ध्वश्रितो बृहस्पतेर्वो ब्रह्मणा देवताभिर्गृह्णामीति द्वादश कुम्भेष्टका अद्भिः पूरयित्वा षट्कुम्भान्षट्कुम्भी र्हिरण्यवर्णाः शुचयः पावका इत्येतेनानुवाकेन प्रतिमन्त्रं कुम्भं कुम्भीं च प्रतिदिशमनुसीतमुपदधाति । चतस्रो मध्ये ॥ ११ ॥

अर्थतः स्थाध्वगत इति ग्रहणमपां कुम्भकुन्भ्योश्च युगपदिति भाष्यकृत् । अपामभिधा. यका मन्त्रा इति । अशक्तावेकैकस्य पूरणमिति न्यायाच्च । कुम्भेष्टकानां द्वे द्वे समान, सया देवते । वाजसनेयिनां पाठात्-शर्म च स्थ वर्म च स्थ देवस्य वः सवितुः प्रसदे मधुमतीः सादयामि तया देवतयाऽङ्गिरस्व वा सीदतमिति तथा पुरस्तादनेरुपदधाति