पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(११-१४ प्रश्नाः) Satyaashada Srautasutra.pdf/१०१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

७२ . सत्यापाढविरचितं श्रौतसूत्रम्- [११ प्रश्नेयथासीतम् । कुम्भमपरतः कुम्भी पूर्वतः । ज्योतिषे वामिति हिरण्यशल्क(ल्को तयोः प्रक्षिपतीत्यापस्तम्बवैखानसौ । युगपत्कुम्भकुम्भ्योश्च द्विवचनत्वान्मन्त्रस्य। एवमनेन कारण पूरणमुपधानं हिरण्यशल्कक्षेपश्चोत्तरा उत्तरमन्त्रैः प्रतिदिशं तूपधीयन्ते । दक्षिणतो द्वे तथाऽपरत उत्तरतश्च कुम्भो दक्षिणतश्च कुम्भीमुत्तरतोऽनुसीतं च । सर्वत्राधस्तात्पाषाणेष्वेवावस्थानं कुम्भेष्टकानाम्-यदपोऽशेरधस्था( स्ता )दुपदधाति (ले० सं० ५... ६-२) इति । एवमपरतोऽपि तथैव कुम्भोऽपरतः कुम्भी पूर्वतः । उत्तरतः कुम्भो दक्षिणतः कुम्भी, उत्तरतश्चतस्रस्तु मध्ये ता अनुसीत द्वे द्वे समानतया देवते, पूर्वदि. वर्तिनीषु तिसृषु सीतासु कुम्भं कुम्भी चेति द्वंद्वम् । एवं दिगन्तरेष्वपि । तदिदमु. च्यते-- द्वंद्वमन्या उपदधाति चतस्त्रो मध्ये धृत्यै '(त० सं०५-६-३) इति । द्वादशाना मध्ये दिक्चतुयेऽष्टौ गताः । अथावशिष्टाश्चतस्रो मध्ये स्थापयेत् । तच्च धृत्यै दाढ्याय भवति ॥ ११ ॥

दिवि श्रयस्वान्तरिक्षे यतस्वेति बार्हस्पत्यं नैवारं चरुं पयसि शृतं मध्ये कुम्भेष्टकानाम् ॥ १२ ॥

उपदधातीत्यनुवर्तते । दिवि श्रयत्वेत्युपधान नैवारस्य, वार्हस्पत्यसंकल्पेन लौकिकेऽग्नौ ( नेवारपचनं ) नैवारचरुश्रपणं भवति । गार्हपत्ये पचनमिति भाष्यकृत् । केचित्त-हिरण्यवर्णा इत्यारभ्य मातर इत्यन्ता द्वादशः कुम्भकुम्भ्योरुपधाने विनियुज्यावशिष्टे । तस्मा अरम्-दिवि श्रयस्वान्तरिक्ष इति च नैवारोपस्थानं कुर्यान्नैवारस्य चरोनॊपधानमिति व्याचक्षते ॥ १२ ॥

तेजसे वां वर्चसे वां चक्षुषे वां ज्योतिषे वाꣳ रेतसे वां प्रजाभ्यो वामिति द्वौ द्वी हिरण्यशकलानुपास्यति ॥ १३ ॥

तेजसे वामिति हिरण्यशकल(लौ त)योः लिपति । युगपत्कुम्भकुम्भ्योश्च द्विवचनत्वान्मन्त्रस्य ॥ १३ ॥

त्वामग्ने वृषभं चेकितानमित्यृषभं हिरण्यशकलं चितौ प्रास्य चितिमचितिं चिनवदिति चिति. क्लृप्त्याऽभिमृशति ॥ (ख० २४) ॥ १४ ॥

स्थामने वृषभमित्वृषभोपधानमुत्क्रमेणापि प्रथमेऽसौ क्रियते । चित्या चित्यामृषभ. मुपदधाति, इति । लोकंपृणाश्च पूरणार्थाः । लोकं पृण च्छिद्रं पृणेति लिङ्गात् । लोकपृण ता अस्य सूददोहस इति लोकंटणामिश्छादयति सर्वमग्निम् । सर्वांन्वर्णानिष्टकानां (करोति )कुर्यादिति श्रुतिः । न श्वेतपीतादीन्वर्णानिदधाति । लेखा वर्णा इत्युच्यन्ते,