पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(११-१४ प्रश्नाः) Satyaashada Srautasutra.pdf/९५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

. सत्यापाढविरचितं श्रौतसूत्रम्- [११ प्रभे

पुरुषशिरोऽस्याः शिरो भवति ॥ ६६ ॥

यया पुरुषस्याऽऽकृतिः सर्वाभिर्जायते तथा करोति । पुरुषशिरश्च यथास्थाने भवति प्राक्पाद उत्तान उर्वहस्तश्च क्रियत इति भाष्यकृत् ।। ६६ ॥

तामुपधाय सहस्रशीर्षा पुरुषः सहस्राक्षः सहस्रपादिति पुरुषेण नारायणेनोपतिष्ठते ॥(ख० २१)॥६७॥

इति सत्याषाढहिरण्यकेशिसूत्र एकादशप्रश्ने सप्तमः पटलः ॥ ७ ॥

सहस्रशीर्षा पुरुष इति तां यजमान उपतिष्ठते, प्रत्यङ्मुखः ।। ६७ ॥ ... इति हिरण्यकशिसूत्रव्याख्यायां महादेवशास्त्रिसंकलितायां प्रयोगचन्द्रि- ..... कायामेकादशप्रश्ने सप्तमः पटलः ।।

11.8 अथैकादशप्रश्नेऽष्टमः पटलः ।

अपस्या उपदधाति । अपां त्वेमन्त्सादयामीति पञ्च पुरस्तात्प्रतीचीः । अर्णवे सदने सीदेति पञ्च दक्षिणत उदीचीः । अपां त्वा सदने सादयामीति पञ्च पश्चात्प्राचीः । गायत्री छन्द इति पञ्चोत्तरतो दक्षिणाः ॥ १ ॥

अब्लिङ्गगतर्मन्त्ररुपधेया इष्टका अपस्याः । ताश्चोपध्यायत् । अपस्याः-अपर्णा त्वेमन्त्सादयामीति विंशतिः । पञ्च पुरस्तादग्नेः प्रत्यगपवर्गाः । पञ्च दक्षिणतोऽमेरुत्तरापवर्गा:-अर्णवे सदने सीदेति । अपां त्वा सदने सादयामीति पञ्च प्रागपवर्गाः पश्चादग्नेः । गायत्री छन्द इत्युत्तरतोऽग्नेर्दक्षिणापवर्गाः । पक्षयोः पुच्छे चार्णवे सदन इत्येवमाद्याः ॥ १॥

ये यज्ञं समगृभ्णन्देवा देवेभ्यः परि । तान्गायत्री नयतु प्रजानती स्वर्गे लोके अमृतं दुहाना । ये ज्योतीꣳषि संदधति स्वरारोहन्तो अमृतस्य लोकम् । ते यन्तु प्रजानन्तो यज्ञं विदानाः सुकृतस्य लोके । ये पशवो मेध्यासो यज्ञस्य योनिमभि संबभूवुः । तान्ददन्ते कवयो विपश्चितो यज्ञं विदानाः सुकृतस्य लोके । यः पन्था विततो १ क. सुवर्ग