पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(११-१४ प्रश्नाः) Satyaashada Srautasutra.pdf/९६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

८ पटलः ] महादेवशास्त्रिसंफलिसंप्रयोगचन्द्रिकाव्याख्यासमेतमें। ६७

देवयानश्छन्दोभिर्विगृहीतं एति । तेनातिष्ठद्दिव- मन्तरिक्षं यज्ञं गृहीत्वा सुकृतस्य लोकम् । यो यज्ञः सहस्रधारो द्यावापृथिव्योरधि निर्मितः । तेनैतु यजमानः स्वस्त्या दिवोऽधि पृष्ठमस्यादिति पञ्च हिरण्येष्टकाश्चतस्रः प्रतिदिशमेकां मध्ये ॥२ ॥

ये यज्ञमिति प्रतिमन्त्र प्रतिदिशं हिरण्येष्टकामुपदधाति । एकां मध्ये ॥ २ ॥

आयवे स्वाहा योष्कृते स्वाहा योष्यत्वने स्वाहा विष्णवे स्वाहा बृहस्पतये स्वाहेति पञ्च हिरण्येष्टकाश्चतस्रः प्रतिदिशमेकां मध्ये । त्रिवृत्ते अग्ने शिरस्तन्मे अग्ने शिरः पञ्चदशौ ते अग्ने बाहू तौ मे अग्ने बाहू सप्तदशस्ते अग्न आत्मा स मे अग्न आत्मैकविꣳशौ ते अग्न ऊरू तौ मे अग्न ऊरू त्रिणवौ ते अग्नेऽष्ठीवन्तौ तौ मे अग्नेऽष्ठीवन्तौ त्रयस्त्रिꣳशं ते अग्ने प्रतिष्ठानं तन्मे अग्ने प्रतिष्ठान- मित्येताः शिरसि पक्षात्पुच्छेषु श्रोण्योरꣳसयोरुपदधाति । त्रिवृत्ते अग्ने शिरस्तेन माऽभिपाहि पञ्चदशौ ते अग्ने बाहू ताभ्यां माऽभिपाहि सप्तदशस्ते अग्न आत्मा तेन माऽभिपाह्येकविꣳशौ ते अग्न ऊरू ताभ्यां माऽभिपाहि त्रिणवौ ते अग्नेऽष्ठीवन्तौ ताभ्यां माऽभिपाहि त्रयस्त्रिꣳशं ते अग्ने प्रतिष्ठानं तेन माऽभिपाहीत्युपहिता यज- मानोऽनुमन्त्रयते ॥ ख०२२ )॥ ३ ॥

आयवे स्वाहेति पञ्चानां हिरण्येष्टकानां यथावकाशमुपधानं मवति । त्रिवृत्ते अमे इत्येताः पञ्च मृदिष्टकाः शिरसि वा यथावकाशमित्येकेषां मतम् । उपहितानामिष्टकानां त्रिवृत्त इत्यनुमन्त्रणं यनमानस्य ॥ ३ ॥

अद्भ्यः संभूतः पृथिव्यै रसाच्च विश्वकर्मणः समवर्तताधि । तस्य त्वष्टा विदधद्रूपमेति तत्पुरुषस्य विश्वमाजानमग्र इत्येतामुपधायर्तसदसि सत्यसदसि तेजःसदसि वर्चःसदसि यशःसदसि गृणानाऽसि । धामासि धाम्यै त्वा धामभ्यस्त्वा धामसु सीद । सनिरसि सन्यै त्वा सने