पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(११-१४ प्रश्नाः) Satyaashada Srautasutra.pdf/९४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अथवा- -ऋचमेव , ॐ पर्टलः ] यहादेवशाखिसंकलितमयोगचन्द्रिकान्याख्यासमेतम् ।

अपिवा तस्य तस्य स्थान उपधाय तस्य तस्योत्सर्गेणोपतिष्ठते ॥ ६२ ॥

अथवा पुरुषशिरःस्थान उपचायार्धर्चाभ्यां हुत्वा तस्यैवोत्सर्गेणोपस्थानम् । एव- मश्वादिहोमवर्जमुपधानं कृत्वोत्सर्गेणोपस्थानं भवतीत्यर्थः ॥ ६२ ॥

नमो अस्तु सर्वेभ्य इत्येतेषामेकेनोत्तरेऽꣳसे सर्पशिर उपदधाति । विषूचीनं पशुशिरोभिः ॥६३॥

नमो अस्तु सर्पेभ्य इत्येकया वा सर्पशिरस उपधानं भवति । अत्रैकमन्त्राणि कर्मा- णीति न्यायात् । विपूचीन, न पशुशिरसोऽभिमुखम् ॥ ६३ ।।

अपिवा यजुरेव वदेन्नोपदध्यात् ॥ ६४ ॥

ब्रूयात् न चातुःस्वर्येण जपति, इत्यनूक्तत्वान्नोपदध्यात्सर्प- शिरः । अथो खलूपधेयमेव यदुपद्धाति ! (ले० सं० ५-२-९) इति पुनर्वच- नात् । प्राकृतेऽसौ नित्यम् । एकविधादिषु गुणविकारेषु च 'यद्यजुर्वदति तेन शान्तम्' (५-२--९ ) इति । सूत्रकारस्य त्वेवंविधेषु यदर्थवादे फलमुद्दिश्य तत्कामस्य सह- विधिः । सदीप्तिः शान्तिरिति फलम् ॥ ६४ ॥

मा छन्दस्तत्पृथिव्यग्निर्देवता तेनर्षिणा तेन ब्रह्मणा तया देवतयाऽङ्गिरस्वद्ध्रुवा सीद । प्रमा छन्दस्तदन्तरिक्षं वातो देवता । प्रतिमा छन्दस्तद्द्यौः सूर्यो देवता । अस्रीविश्छन्दस्तद्दिशः सोमो देवता । विराट्छन्दस्तच्चक्षुः पूषा देवता । गायत्री छन्दस्तदजा बृहस्पतिर्देवता । त्रिष्टुप्छन्दस्तद्धिरण्यमिन्द्रो देवता । जगती छन्दस्तद्गौः प्रजापतिर्देवता । अनुष्टुप्छन्दस्तद्वा ग्वरुणो देवता । उष्णिहा छन्दस्तदायुर्मित्रो देवता ॥ । पङ्क्तिश्छन्दस्तत्कृषिः पर्जन्यो देवता । बृहती छन्दस्तदश्वः परमेष्ठी देवता तेनर्षिणा तेन ब्रह्मणा तया देवतयाऽङ्गिरस्वद्ध्रुवा सीदेति द्वादशभिस्त्रिरभ्यावर्तयन्षट्त्रिꣳशता पुरस्तात्प्रतीचीं पुरुषाकृतिं चितिं चिनोति ॥६५॥

मा छन्द इत्येवमादिभिर्दादशेषकास्त्रिरभ्यासमुपदधाति, प्रत्यगपवर्गम् । पशि- दिष्टका: प्रतीचीमिति च वैखानसे वचनात् ॥ १५ ॥ , $