पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(११-१४ प्रश्नाः) Satyaashada Srautasutra.pdf/९३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

६४ . सत्यापाढविरचितं श्रौतसूत्रम्- [११ प्रश्ने(अता) पशुमान्भवति । यजमानसमीप एवं दधाति । एवमुत्तरत्र यं कामयेताल्पमस्यान स्यादिति संतरां संगतान्तरामुखायामेव पशुशीर्पाण्युपधेयानीति प्रतिषेधार्थमुच्यते । समानवत्समानाधिकं न न्यून संवत्सरप्रक्रान्तं मध्यतस्तस्याग्नेरुपदध्यात् । चतसृष्वपि दिक्षु । यं कामयेत बन्नं स्यादित्यन्तेषु तस्य चतुर्दिशमप्यनेविदुह्य मृत्तिकामपनीयोपधानं कर्तव्यम् । दिगन्तेष्वन्ततः । तस्मान्नं स्यात्ततोऽन्नं लभ्यते भूयो बन्नं भवति ॥१८॥

वातस्य ध्राजिमिति पुरस्तात्प्रतीचीनमश्वस्योपदधाति । अजस्रमिन्दुमिति पश्चात्प्राचीनमृषभस्य । वरूत्रिं त्वष्टुरिति दक्षिणत उदीचीनं वृष्णेरुत्तरतो वा दक्षिणं यो अग्निरग्नेरित्युत्तरतो दक्षिणं वस्तस्य दक्षिणतो वोदीचीनं तान्युत्सर्गैरव्यवायन्प्रदक्षिणमनु परिक्रामन्प्रतिदिशमुपतिष्ठते ॥(ख० २०) ॥ इमं मा हिꣳसीर्द्विपादमिति पुरुषस्य । इमं मा हिꣳसीरेकशफमित्यश्वस्य । इमꣳ समुद्रमित्यृषभस्य । इमामूर्णायुमिति वृष्णेः । अजा ह्यग्नेरिति बस्तस्य ॥ ५९ ॥

वास्य नाजिमिति पुरुस्तादग्नेः प्रतीचीनं प्रत्यङ्मुखः पुरुषशिरोभिमुखमश्वशिर उपदधाति । अजस्रमिन्दुमिति पश्चादनेः प्राङ्मुखः पुरुषशिरोभिमुखमृषभस्य शिर उपदधाति । वरूत्रिं त्वष्टुरिति दक्षिणत उदीचीन उदङ्मुखः पुरुषशिरो[ मि ]मुखं वृष्णेः शिर उपदधाति । यो अग्निरलेरित्युत्तरतोऽमेर्दक्षिणामुखः पुरुषशिरोभिमुख बस्तस्य शिर उपदधाति । तान्युपतिष्ठन्ते शिराँसि, अव्यवायेनान्तरं तेषामगच्छन् । उत्सगैम्यिाणां पशूनाम्, आरण्यास्तु तद्रूपा मयुप्रभृतयस्तेषामश्वमेवे वक्ष्यति । इमं मा हिसीर्द्विपादमिति पुरुषशिरस उपस्थाने । इमं मा हिसारेकशफमित्यश्वस्य, इम समुद्रमित्युषभस्य, इमामोयुमिति वृष्णेः, अजा ह्यन इति वस्तस्य ॥ १९ ॥

अथ यदि वायव्यस्य शिरो भवति ॥ ११.७.६० ॥

मुख्यस्थाने सर्वैरुपधाय सर्वैरुत्सर्गैरुपतिष्ठते ॥ ६१ ॥

यदि वायन्यस्य शिरः स्यात्सर्वेषां स्थाने कृतं, मुख्यस्य स्थाने पुरुषशिरसः सर्वेषाजमुपधानमन्त्रैरुपधाय, उखायाम्-आदित्यं गर्भ वातस्य धाजिमजस्रमिन्दं वरूत्रिं : स्वष्टः, यो अग्निरग्नेरित्येतेः सर्वैरुपधाय चित्र देव नामित्यक्षिकटयोर्तुत्वा सर्वेषामुत्सगैरुपस्थानं भवतीति भावः ॥ ६० ॥ ११ ॥