पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(११-१४ प्रश्नाः) Satyaashada Srautasutra.pdf/९२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

________________

७ पटलः ] महादेवशाखिसंकलितप्रयोगन्द्रिकाव्याख्यासमेतम् । ६३ तस्य पुरुषशीर्षस्याऽऽस्यादिच्छिद्रेषु हिरण्यशकलप्रक्षेपं वक्ति श्रुतिः-प्राणेषु हिरण्यशल्कान्प्रत्यस्यति ' (ते. सं० ५-२-९) इत्यादि । प्राणसंचारस्थानेष्वास्यादिषु हिरण्यशकलान्प्रक्षिपेत् । एवमापस्तम्बादिषु द्रष्टव्यम् ॥ ५४॥

समित्स्रवन्ति सरितो न धेना इति शृतातङ्क्येन दध्ना मधुमिश्रेण पुरुषशिरः पूरयित्वा सहस्रधा असि सहस्राय त्वेत्यादायाऽऽदित्यं गर्भं पयसा समञ्जन्नित्युखायामुत्तानं प्राक्चुबुकमुपदधाति॥५५॥

आसामित्यन्तः । अहं मधव्योऽसानि (५-२-९ ) इति मधुररसमोगयोग्यो भवानीत्यनेनाभिप्रायेणैतत्पुरुषशिरो मधुयुक्तेन दना पूरयेत् । अत्र द्विविधं दधि । तत्रक रजतप्रक्षेपादिना स्वयमेव घनीभवति । अन्यत्तु पक्वक्षीरादातश्चनेन निष्पद्यते । तत्र क्षीरातश्चनाभ्यां निप्पन्न यागयोग्यम् । तस्मात्तादृशेनैव पूरयेत् । सर्वेषां पशुशिरसां चाश्चादीनां हिरण्यशकलप्रक्षेपः पुरुषशिरोवत्पूरणं तद्वदेवेति वाजसनेयिनः परिपठन्ति । सहस्रधा इति पुरुषशिरो गृहीत्वाऽऽदित्य गर्भ पयसेत्युखायामुपद्धाति, यथा पुरस्ताद्धनुर्भवति प्राचीनं पुरस्ताच्चुबुकमिति व्याख्यातमुत्तानम् । प्राङ्मुखः कर्ता उपधातीत्यर्थः ॥ ५५ ॥

उदु त्यं चित्रमिति सौर्यर्चाभ्यामक्षिकटयोरभिजुहोति ॥ ५६ ॥

सौर्यचर्चाभ्यां होमः सूर्यो देवता । यद्वा-चित्रमिति दक्षिणेऽसिकटे, आ प्राद्यावा पृथिवी इति सव्ये जुहोति ॥ १६ ॥

पशुशीर्षाण्युपदधाति ॥५७॥

पशुशिरसामुपधानं करोति ॥ १७ ॥

यं कामयेतापशुः स्यादिति विषूचीनानि तस्योपदध्यात् । यं कामयेत पशुमान्त्स्यादिति समीचीनानि तस्योपदध्यात् । यं कामयेत कनीयोऽस्यान्नꣳ स्यादिति संतरां तस्य पशुशीर्षाण्युपदध्यात् ॥ यं कामयेत समावदस्यान्नꣳ स्यादित्यभितस्तस्य स्वयमातृण्णामुपदध्यात् । यं कामयेत भूयोऽस्यान्नꣳ स्यादित्यन्तेषु तस्य व्युदुह्योपदध्यात् ॥५८॥

यं कामयेतापशर्भवेदिति विषचीनानि पराङ्मुखाणि । पुरुषशिरसः प्रतिषेधोऽयं न विधिः । विषचोऽस्य पशवः, सर्वेश्यादयः पलायन्ते, समीचीनानि अपर मुखाणि । पुरुषशिरस इति विधिः प्रशस्यते । समीचो यजमानसमीपेऽश्वादयः पशव आयान्तिा