पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(११-१४ प्रश्नाः) Satyaashada Srautasutra.pdf/९१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

... सत्यापादविरचितं श्रौतसूत्रम्- [११ प्लने, सिकताभिः पूरिताया ईषन्न्यूनाया उखाया उपधाने सति क्षोधुकोऽन्नरहितः क्षुधाशीलो भवति । सोऽयं व्यतिरेकः । सिकतापूर्णया उपधाने त्वनुपदस्यदेवाक्षीयमाणमेवान्नमत्ति । सोऽयमन्वयः ॥ ५० ॥

स्यूता देवेभिरमृतेनाऽऽगा उखाँ स्वसारमधिवेदि मस्थात् । सत्यं पूर्वैर्ऋषिभिश्चाकु(कृ)पानो(णो)ऽग्निः प्रविद्वानिह तत्करोत्वित्युखामादाय धुवाऽसि पृ- थिवीति च ॥ पृथिवी पृथिव्याꣳ सीद माता मातरि माता स्योना स्योनायां क्रतुर्देवानां महि मानमीमहेऽग्निꣳ सधस्थे सदनेषु सुक्रतुः । वैश्वा- नरं ब्रह्मणा विश्वव्यचसꣳ सो(स्तो)मस्य धामं नि (मन्नि)हितं पुरीष्यम् । समिद्धमग्निꣳ समिधा समिध्यसेऽग्निꣳ सधस्थे सदनेष्वच्युतम् ॥ वैश्वानरं ब्रह्मणा विश्वव्यचसꣳ स्तोमस्य धाम नि (न्नि)दधे पुरीष्यम् । न्ययुर्मात्रया कवयो वयोधसोऽग्निꣳ सधस्थे सदनेष्वाहुतम् ॥ वैश्वानरं ब्रह्मणा विश्वव्यचसꣳ स्तोमस्य धाम प(न्प)वमा- नमादृतम् ॥ धुवाऽसि पृथिवी तया देवतयाऽ ङ्गिरस्वद्ध्रुवा सीदेति मध्येऽग्नेरुखामुपदधाति ॥५१ ॥

उपदधाति स्थापयति ॥ ११ ॥

उपरिष्टादुलूखलस्येत्येकेषाम् ॥ ५२ ॥

पृथिवी पृथिव्याः सीदेति वोलूखलस्योपर्युखामुपद्धाति वाजसनेयिब्राह्मणम्॥५२॥

अग्ने युक्ष्वा हि ये तवेति युक्तवतीभ्याम् ॥ ख० १९) ॥ उखायामेकाहुतिं जुहोति ॥ ५३ ॥

उपाहितायामुखायां होमः । अग्निर्देवता ॥ ५३ ॥

पुरुषशिरसः प्राणेषु हिरण्यशल्कान्प्रत्यस्यति । ऋचे त्वेति दक्षिणेऽक्षिकटे । रुचे त्वेत्युत्तरे भासेति दक्षिणस्यां नासिकायां ज्योतिषे त्वेत्युत्तर स्यामभूदिदं विश्वस्य भुवनस्य वाजिनमित्यास्येऽग्निज्योतिषा ज्योतिष्मानिति दक्षिणे कर्णे रुक्मो वर्चसा वर्चस्वानित्युत्तरे ॥ ५४ ॥