पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(११-१४ प्रश्नाः) Satyaashada Srautasutra.pdf/९०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

७. पटलः ] महादेवशास्त्रिसंकलितपयोगचन्द्रिकाव्याख्यासमेतम् । ६१

औदुम्बरं प्रादेशमात्रं चतुःस्रक्त्युलूखलमपरिमितं मुसलं भवति ॥ ४४ ॥

उदुम्बरस्यावयव औदुम्बरस्तं प्रादेशमात्रनमाणमुलूखलमपरिमितं मसलं तदौदं. म्वरम् । उलूखलस्य प्रकृतिद्रव्यं विधत्ते-औदुम्बरं भवति ( तै० सं०५-२-८) इत्यादि ॥ १४ ॥

उत स्म ते वनस्पते वातो विवात्यग्रमित् । अथो इन्द्राय पातवे सुनु सोममुलूखलेति सर्वौषधस्य पूरयित्वाऽवहन्ति ॥ ४५ ॥

सप्त ग्राम्याः सप्ताऽऽरण्या ओषधयस्ताभिः पूरयित्वा तूप्णीमुत स्म त इति मन्त्रेणावह्ननम् । सुनु सोममुलूखलेति मन्त्रलिङ्गात् ।। ४५ ॥ देशविशेषमाह -

तद्विष्णोः परमं पदमिति मध्येऽग्नेरुलूखलं मुसलमुपदधाति विष्णोः कर्माणि पश्यतेति वा मुसलम्॥

मध्यत उपदधाति ( तै० सं० ५-२-८) इत्यादिब्राह्मणम् । अग्नेर्मध्य उपदधात्युलखलं मुसलं द्रव्यपृथक्त्वादभ्यावर्तते, इति न्यायादेकमन्त्रपक्षेऽपि । मन्त्रद्वयपक्षे तु तद्विष्णोरित्युलूखलं, विष्णोः कर्माणीति मुसलं चोपदयात् ॥ १६ ॥

दिवो वा विष्णविति शूर्पम् ॥ ४७ ॥

दिवो वा विष्णवित्याशी:पदयर्चा शूर्पे, सत्यादित्येवमन्तया ॥ १७ ॥ उपधेयाया उखायाः सिकतापूरणं चाह -

सिकताभिरुखां पूरयति ॥ ४८ ॥

स्पष्टोऽर्थः ॥ १८॥

दध्ना मधुना घृतेन वा ॥ ४९ ॥

पूरयतीत्यनुवर्तते । स्यूता देवोभरित्युखों पूरयति घृतेन मधुना सिकताभिर्वा सर्वैर्वा । घृतेन संसृज्य पूरयति न रिक्ताया अवेक्षणप्रतिषेधो बहिरपि शुग्विाविशुद्धिा भवति, इत्यापस्तम्बेनोक्तत्वात् । पूरणोत्तरकालं पय आनयत्यस्याः संनिवापे तु कृते पूरणमेके परिपठन्ति । अतः क्रमः || ४९ ॥ अन्वयन्यतिरेकाभ्यां पूरणं प्रशंसति -

यं कामयेत क्षोधुक्स्यादित्यूनां तस्योपदध्यात् । यं कामयेतानुपदस्यदन्नमद्यादिति पूर्णां तस्योप दध्यात् ॥११.७.५० ॥